पट्टिश(स) पु० अस्त्रभेदे अमरः । तल्लक्षणं हेमा०परि- उशनमोक्तं यथा [] उक्तं नालसूर्यकं पट्टिसविधिर्वक्ष्यते । वत्स! निबोध त्रिहस्तः सार्द्धत्रिहस्तश्चतुर्हस्तश्चेति श्रेष्ठमध्यमाधमानां दण्डस्त्रिविधः । कर्तृयोग्यमुखो ग्राह्यानाहो भ- वेत् । दण्डश्चाष्टाविंशतिपलो निकृष्टो मध्यमश्चतुस्त्रिंश- त्पलः श्रेष्ठश्चत्वारिंशत्पलः । यथा कुन्तप्रमाणेनोपयोग स्तथास्यापि द्रष्टव्यः । तथा सूर्यचन्द्रसदृशाकारं षो- डशाङ्गुलविस्तारं तीक्ष्णधारान्वितं द्वात्रिंशत्पलं पत्रं भवति । तस्यारा वडङ्गुलाः । कोशः सप्ताङ्गुलः तस्य पञ्चपलं तस्यानुयोगतः संप्रश्लिष्यकीलाभ्यामेव कोशो भवेत् तदारया दृढसमन्वितया । अग्रकल्पः सुदृढः सतैदृ- श्यमत्स्यादारामूलमानाद्द्व्यगुलोन्नतः दण्डः कार्यः । एकाङ्गुलास्या स्यादारा षडङ्गुलानाहा दण्डमूले चार्पिता सफलास्यासमुच्छ्रयात् । फलविस्तारोमध्ये भयेत् । समश्च भवेत् पाशधारणस्त्रिपलगौरवो द्व्यङ्गुलश्च कोशो मूल- पार्श्वो दृढारास्यात् । धाराया वितानार्थं मुनेरपि ब- लार्थं च मूलं रक्षेच्च सुदृढार्थमाराबलेन युक्तं कोश मध्ये सुविद्धजारायां यथा दृष्टं कुण्डलाग्रं यथायोगं ग्र नागपाशधारकं मुनिदेशादुपरि वन्धाधानमुखसमन्वितं भवेत् । आरागतं सम्यक्पञ्चाङ्गुलायतं सुमृष्टं दृडापाङ्गं च स्यात् । तथैव चाष्टपलसमन्वितं छेदाङ्गकल्पकरणमूल कल्पं विद्यात् भवति चात्र श्लोकाः । प्राधान्यं पट्टिसानां स्याच्छेद्ययोगविधानतः । मध्यमं चैव लक्ष्येषु नीचं चैवाधमेषु च । मिश्रयोगेन मिश्रं म्याद्दण्डश्चोक्तायतः- स्मृतः । विज्ञायैव यथेष्टानि शस्त्राणीह प्रयोजयेत्”
📄 मूल मुद्रित पृष्ठ (4202-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।