🕉️ 26 November 2026, Thursday · 07:09:01 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

परमेष्ठी
parameṣṭhī
🟠 शब्दसागर🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
परमेष्ठी संज्ञा पुं॰ [सं॰ परमेष्टिन्]
१. ब्रह्मा, अग्नि, आदि देवता ।
२. विष्णु ।
३. शिव ।
४. एक जिन का नाम ।
५. शलिग्राम का एक विशेष भेद ।
६. विराट् पुरुष ।
७. चाक्षुष मनु ।
८. गरुड़ ।
९. आध्यात्मिक शिक्षक । गुरु (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
परमेष्ठी, [न्] पुं, (परमे व्योम्नि चिदाकाशे ब्रह्म- पदे वा तिष्ठतीति । स्थागति निवृत्तौ “परमे कित् ।” उणां । ४ । १० । इति इनिः स च [] कित् । “हलदन्तात् सप्तम्याः संज्ञा- याम् ।” ६ । ३ । ९ । इत्यलुक् “स्थास्थिन् स्थणाम् । इति षत्वम् । परमे स्थानेऽनावृत्त- लक्षणे तिष्ठतीति कुल्लूकभट्टः ॥) ब्रह्मा । इत्यमरः । १ । १ । १६ । (यथा, मनुः । १ । ८० । “मन्वन्तराण्यसंख्यानि सर्गः संहार एव च । क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ५८ । “ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ॥” महादेवः । यथा, महाभारते । ३ । ३७ । ५८ । “क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ॥”) दर्शनात्तस्य कौन्तेय ! संसिद्धः सर्व्वमेष्यसि ॥”) जिनः । इति हेमचन्द्रः ॥ शालग्रामविशेषः । यथा, -- “परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः । चित्राकृतिस्तथा पृष्ठे शुषिरञ्चातिपुष्कलम् ॥ परमेष्ठी लोहिताभश्चक्रमेकं तथा युतम् । विम्बाकृतिस्तथा रेखा शुषिरञ्चातिपुष्कलम् ॥” इति ब्रह्मपुराणम् ॥ “परमेष्ठी च शुक्लाभश्चक्रपद्मसमन्वितः । स वर्त्तुलस्तथा पीतः पृष्ठे च शुषिरं ध्रुवम् ॥” इति पुराणसंग्रहः ॥ “परमेष्ठी तु रक्ताभश्चक्रपद्मसमन्वितः । द्विधाकृतस्तथा पृष्ठे शुषिरञ्चापि वर्त्तुलम् ॥ पीतवर्णयुतो वापि भुक्तिमुक्तिवरप्रदः ॥” इति वैश्वानरसंहिता ॥ * ॥ गुरुविशेषः । यथा, -- “आदौ सर्व्वत्र देवेशि ! मन्त्रदः परमो गुरुः । परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः ॥” इति बृहन्नीलतन्त्रे २ पटलः ॥ मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः । परापरगुरुस्त्वं हि परमेष्ठिगुरुस्त्वहम् ॥” इति तन्त्रान्तरम् ॥ (अजमीडपुत्त्रः । यथा, महाभारते । १ । ९४ । ३१ । “अजमीडो वरस्तेषां तत्मिन् वंशः प्रतिष्ठितः । षट् पुत्त्रान् सोऽप्यजनयत् तिसृषु स्त्रीषु भारत ! । ऋक्षं धूमिन्यथोनिली दुष्मन्तपरमेष्ठिनौ ॥” परमस्थानस्थिते वाच्यलिङ्गः । यथा, मार्क- ण्डेये । ७६ । २ । “अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः । चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ! ॥”)
📄 मूल मुद्रित पृष्ठ (3-052-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬