आत्मभू पु० आत्मनोमनसो देहात् वा भवति भू--क्विप् ५ त० । मनोभवे १ कामे देहभवे २ पुत्रे ३ कन्यायां ४ बुद्धौ च स्त्री । आत्मनैव भवति भू--क्विप् । ५ ईश्वरे पु० स हि “बहु स्यां प्रजायेयेति” ईक्षणपूर्व्वकं सृज्यवस्त्वाकारेण विवर्त्तनात् तथा । “सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः” रघुः “आत्मभूरवरजाखिलप्रजः” इति माघः ६ शिवे ७ विष्णौ च परमेश्वराभेदात्तयोस्तथात्वम् । आत्मनः ब्रह्मणः भवति भू--क्विप् । आदिजीवे ६ हिरण्यगर्भे “यो वै ब्राह्मणं विदधाति पूर्व्वम्” इति श्रुत्या “यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपपन्नञ्च जायते इति” श्रुत्या च चतुर्मुखस्यात्मजन्यत्वीक्तेस्तस्य तथात्वम् ब्रह्मेति क्लीवं छान्दसम् “यमामनन्त्यात्मभुवोऽपि कारणम्” “वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः” कुमा० अच् आत्मनो भवति भू + अच् ५ त० । आत्म- भवादयोऽप्युक्तार्थेषु ।
📄 मूल मुद्रित पृष्ठ (0687,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।