पर्पटः, पुं, (पर्प + अटन् ।) वृक्षविशेषः । क्षेत- पापडा इति वङ्गभाषा । दवनपापर इति हिन्दीभाषा । तत्पर्य्यायः । त्रियष्टिः २ तिक्तः ३ । इति रत्नमाला ॥ चरकः ४ रेणुः ५ तृष्णारिः ६ वरकः ७ अरकः ८ शीतः ९ शीतप्रियः १० पांशुः ११ कल्पाङ्गः १२ कर्म्मकण्टकः १३ कृश- शाखः १४ प्रगन्धः १५ सुतिक्तः १६ रक्त- पुष्पकः १७ पित्तारिः १८ कटुपत्रः १९ वक्रः २० । अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । पित्तश्लेष्मज्वररक्तदाहारुचिग्लानिमदभ्रमनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ [] “पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः । कथितः पांशुपर्य्यायस्तथा कवचनामकः ॥ पर्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वंरान् । संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ॥” इति भावप्रकाशः ॥ * ॥ पिष्टकभेदः । पापर इति भाषा ॥ तस्य गुणः । लघुत्वम् । रूक्षत्वञ्च । इति राजवल्लभः ॥ “धूमसीरचिता हिङ्गुहरिद्रालवणैर्युताः । जीरकस्वर्जिकाभ्याञ्च तनुं कृत्वा च वेल्लिताः ॥ दीपनाः पाचना रूक्षा गुरवः किञ्चिदीरिताः ॥ मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः । चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः ॥ स्नेहे भृष्टास्तु ते सर्व्वे भवेयुर्मध्यमा गुणैः ॥” इति भावप्रकाशे पूर्व्वखण्डे द्बितीयभागे ॥
📄 मूल मुद्रित पृष्ठ (3-072-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।