पललं, क्ली, (पलति पल्यतेऽनेन वा । पल गतौ + “वृषादिभ्यश्चित् ।” उणां १ । १०८ । इति कलच् ।) मांसम् । इत्यमरः । २ । ६ । ३३ ॥ (यथा, गारुडे । १८१ । अध्याये । “मार्ज्जारपललं विष्ठा हरितालञ्च भावितम् । छागमूत्रेण तल्लिप्तो मूषिको मूषिकान् हरेत् ॥”) पङ्कम् । (यथा, गोः रामायणे । ५ । ८७ । २६ । “दोषपङ्कनिमग्नं त्वामयशःपललावृतम् । सर्व्वथा मानुषो रामस्त्वामन्तमुपनेष्यति ॥”) तिलचूर्णम् । इति मेदिनी । ले, १०४ । “पललं तिलकल्कं स्यात्तिलचूर्णञ्च पिष्टकः । पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम् ॥” इति राजनिर्घण्टः ॥ सैक्षवतिलचूर्णम् । तिलकुटा इति भाषा । यथा, वैद्यके । “पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम् । पललं मलकृद् वृष्यं वातघ्नं कफपित्तकृत् ॥ बृंहणं गुरु वृष्यञ्च स्निग्धं मूत्रनिवर्त्तकम् ॥”
पललः, पुं, (पलतीति । पल गतौ + “वृषादिभ्य- श्चित् ।” उणां । १ । १०८ । इति कलच् । यद्वा, पलं मांसं लातीति । ला + कः ।) राक्षसः । इति मेदिनी । ले, १०४ ॥
📄 मूल मुद्रित पृष्ठ (3-079-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।