🕉️ 20 November 2026, Friday · 05:06:22 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पशुपति
paśupati
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पशुपति संज्ञा पुं॰ [सं॰]
१. पशुओं का स्वामी ।
२. जीवों का ईश्वर या मालिक ।
३. शिव । महादेव । उ॰— गणपति सुखदायक, पशुपति लायक सूर सहायक कौन गनै ।— राम चं॰, पृ॰ ७ । विशेष— शैव दर्शन और पाशुपत दर्शन में जीवमात्र 'पशु' कहे गए हैं और सब जीवों के अधिपति 'शिव' ही परमेश्वर माने गए हैं ।
४. अग्नि ।
५. ओषधि ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पशु—पति m. ‘lord of animals’ (or ‘l˚ of a servant named Paśu’ or ‘l˚ of the soul’, RTL. 89), N. of the later Rudra-Śiva or of a similar deity (often associated in the Veda with Bhava, Śarva, Ugra, Rudra, Mahā-deva, Īśāna and others who together with Bhīma are in later times regarded as manifestations of Rudra), AV. &c. &c.
of Agni.; TS.; ŚBr.
of Śiva, MBh. &c. (according to one legend every deity acknowledged himself to be a mere पशु or animal when entreating Śiva to destroy the Asura Tri-pura)
of a lexicographer
of a Scholiast &c.
📄 मूल मुद्रित पृष्ठ (611,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पशुपति पु० पशूनां जीवानां पतिः । १ महेश्वरे शिवे १ पशुस्वामिनि । यजुर्बेदीयकर्सकाण्डपद्धतिकारके हला- युध सहोदरे ३ पण्डितभेदे च । शिवस्य तन्नामनिरुक्ति- र्यथा “अयञ्च सर्वविद्याना पतिराद्यः सनातनः । अहं वै पतितो येन पशुमध्ये (जीवमध्ये) व्यवस्थितः । अतः पशुपतिर्नाम त्वं लीके ख्यातिमेध्यसि” वराहपु० । पशुपतिनोपदिष्टम् अण् । पाशुपत शैत्रागमभेदे तत्र प्र- तिपाद्यविषयाश्च सर्वदर्शनसंग्रहे नकुलीशमतप्रदर्शनान- न्तरं दर्शिता यथा “तमिसं परमेश्वरः कर्सादिनिरपेक्षः कारणमिति पक्षं वैषम्यनैर्घृ ण्यदोषदूषितत्वात् प्रतिक्षिपन्तः के अन माहे- श्वराः शैवागमसिद्धान्ततत्त्वं यथावदीक्षमाणाः कर्मादि- सापेक्षः परमेश्वरः कारणमिति पक्षं कक्षीकुर्वाणाः प्रक्षा- न्तरमुपक्षिपन्ति । तत्र पशुपतिपाशभेदात् त्रयः पदार्था इति । तदुक्तं तन्त्रतत्त्वज्ञैः “त्रिपदार्थं चतुष्पादं महामन्त्रं जगद्गुरुः । सूत्रेणैकेन संक्षिप्य प्राह विस्तरतः पुनः” इति अस्यार्थः त्रयः पशुपतिपाशाः पदार्था यस्मिन् सन्ति तत्त्रि- पदाथ विद्याक्रियायोगचर्य्याख्याश्चत्वारः पादा यणिन् तच्चुतुश्चरणं महामन्त्रमिति । तत्र पशूनामस्वतन्त्रत्वात [] पाशानामचैतन्यात् तद्विलक्षणस्य पत्युः प्रथममुद्देशः । चेतनत्वसाधर्म्यात् पशूनां तदानन्तर्य्यम् । अवशिष्टानां पाशानामन्ते विनिवेश इति क्रमनियमः । दीक्षायाः प- रमपुरुषार्थहेतुत्वात्तस्याश्च पशुपाशेश्वरस्वरूपनिर्णयोपाय भूतेन मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन ज्ञानेन पिना निष्पादयितुमशक्यत्वात् तदवबोधकस्य विद्यापा- दस्य प्राथम्यम् । अनेकविधसाङ्गदीक्षाविधिप्रदर्शकस्य क्रियापादस्य तदनन्तर्य्यम् । योगेन विना नाभिमत- प्राप्तिरिति साङ्गयोगज्ञापकस्य योगपादस्य तदुत्तरत्वम् । विहिताचरणनिषिद्धवर्जनरूपां चर्य्यां विना योगोऽपि न निर्वहतीति तत्पतिपादकस्य चर्य्यापादस्य चरमत्व- मिति विवेकः । तत्र पतिपदार्थः शिवोऽभिमतः । मुक्ता- त्मनां विद्येश्वरादीनाञ्च यद्यपि शिवत्वमस्ति तथापि परमेश्वरपारतन्त्र्यात् स्वातन्त्र्यं नास्ति । ततश्च तदुप- करणभुवनादीनां भावानां सन्निवेशविशिष्टत्वेन कार्य्यत्व- मवगम्यते । तेन च कार्य्यत्वेनैर्षा बुद्धिमत्पूर्वकत्वमनु- मीयत इत्यनुमानवशात् परमेश्वरप्रसिद्धिरुपपद्यते । ननु देहस्यैव तावत्कार्यत्वमसिद्धं म हि क्वचित् केन चित् कदाचित् देहः क्रियमाणो दृष्टचरः । सत्यं त- थापि न केनचित् क्रियमाणत्वं देहस्य दृष्टमिति कर्भृ- दर्शनापह्नवो न युज्यते तस्यानुमेयत्वेनाप्युपपत्तेः । दे- हादिकं कार्य्यं भवितुमर्हति सन्निवेशविशिष्टत्वात् विनश्वरत्वाद्वा घटादिवत् तेन च कार्य्यत्वेन बुद्धिमत्- पूर्वकत्वमनुमातुं सुकरमेव । विमतं सकर्तृकं कार्य्य- त्वात् घटवत् यदुक्तसाधनं तदुक्तसाध्यं न यदेवं न तदेवं यथात्मादि । परमेश्वरानुमानप्रामाण्यसाधनानुमा- नमन्यत्राकारीत्युपरम्यते “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरष्रेरितो गच्छेत् स्वर्गं वा श्वभ्र- मेव वा” इति न्यावेन प्राणिकृतकर्मापेक्षया परमेश्वरस्य कर्तृत्वोपपत्तेः । न च स्वातन्त्र्यविहतिरिति वाच्यं करणापेक्षया कर्तुः स्वातन्त्र्यविहितेरनुपलम्भात् कोषा- ध्यक्षापेक्षस्य राज्ञः प्रसादादिना दानवत् यथोक्तं सि- द्धगुरुभिः “स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता । कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षया” इति । तथा च तत्तत्कर्माशयबशाद्भोगतत्साधनतदुपादानादिविशेषज्ञः । त- तश्च कर्त्ता अनुमानादिसिद्ध इति सिद्धम् । तदिदमुक्तं तत्रमवद्भिर्वृहस्पतिभिः “इह भोग्यगोगसाधनतदुपादा- नाद्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पशुपतिः, पुं, (पशूनां स्थावरजङ्गमानां पतिः ।) शिवः । इत्यमरः । १ । १ । २२ ॥ (यथा, महाभारते । १३ । १७ । १३४ । “ऊर्द्ध्वगात्मा पशुपतिर्व्वातरंहा मनोजवः ॥” तस्य निरुक्तिर्यथा चिन्तामणिधृतवचने, -- “ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्त्तिताः । तेषां पतिर्महादेवः स्मृतः पशुपतिः श्रुतौ ॥”) अपरा निरुक्तिर्यथा, वराहपुराणे । “अहञ्च सर्व्वविद्यानां पतिराद्यः सनातनः । अहं वै पतिभावेन पशुमध्ये व्यवस्थितः । अतः पशुपतिर्नाम त्वं लोके ख्यातिमेष्यसि ॥” अयं यजमानमूर्त्तिः । यथा । पशुपतये यज- मानमूर्त्तये नमः । इत्यष्टमूर्त्तिपूजायां भविष्य- पुराणम् ॥ (महादेवो हि नेपाले पीठस्थाने पशु- पतिरित्याख्यया विराजते । यदुक्तं महालिङ्गे- श्वरतन्त्रे शिवस्य शतनामस्तोत्रे, -- “नेपाले च पशुपतिः केदारे परमेश्वरः ॥”)
📄 मूल मुद्रित पृष्ठ (3-086-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें