🕉️ 19 November 2026, Thursday · 08:57:27 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पुरीष
purīṣa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पुरीष १ संज्ञा पुं॰ [सं॰]
१. विष्टा । मल । गू ।
२. कूड़ा कचड़ा (को॰) ।
३. जल ।
पुरीष † २ संज्ञा पुं॰ [हिं॰] दे॰ पुरुष उ॰— नल राजा मेल्हे गयो, पुरीष समौ नहीं निगुण संसार ।—बी॰ रासो, पृ॰ ६४ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पुरीष n. (√ पॄ) earth, land, RV.
(esp.) crumbling or loose earth, rubbish (perhaps ‘that which fills up’, as opp. to that which flows off, ‘the solid’ opp. to the fluid), rubble, anything used to fill up interstices in a wall, VS.; TS.; ŚBr.; GṛŚrS.
feces, excrement, ordure, ŚBr. &c. &c. (ifc. f(ई). , BhP.)
a disk, orb (e.g. सूर्यस्य i.e. ‘fulness of the sun’ ?), RV. x, 27, 21
(with आथर्वण) N. of a Sāman, ĀrṣBr.
📄 मूल मुद्रित पृष्ठ (636,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पुरीषं [पॄ-ईषन् किच्च Uṇ. 4. 27] 1 Feces, excrement, ordure; Ms. 3. 250, 5. 123, 6. 76; 4. 56. --2 Rubbish, dirt. --3 Ved. Water. --Comp. --आधानं the rectum. --उत्सर्गः voiding excrement. --निग्रहणं obstruction of the bowels.
📄 मूल मुद्रित पृष्ठ (0711-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पुरीष न० पॄ--ईषन् किच्च । १ विष्ठायाम् अमरः २ उदके नि- षण्टुः पुरीषिन्शव्दे दृश्यम् । विष्ठात्यागप्रकारादिकं यथा “मूहूर्त्ते ब्राह्म उत्थाय रात्रिवासं परित्यजेत् । परिधाया रं वस्त्रं शयनस्थानतोन्यहम् । मुखाङ्घ्रिहस्तान् प्रक्षाल्य द्विराचम्य ततो द्विजः । कृष्ण! कृष्ण! स्मृतिं कृत्वा खनित्वा नैरृतीं दिशम् । खनित्रखननेनैव द्वादशा- ङ्गल्यधोमृदम् । गृहीत्वोदकपात्रञ्च मितं गच्छेद्धनुः शतम् । ग्रामाद्वा शरविक्षेपमात्रमनुदिते रवौ । मैत्र- मावश्यकं कर्तुं नगराच्च चतुर्गुणम् । तत्त्रिमुष्ट्यायतं गर्त्तं तथा कृत्वा गभीरकम् । कृत्वा त्वद्भिः खनित्रेण कुशैराच्छाद्य तत्तृणम् । शुष्कैः काष्ठैरयज्ञीयैर्भूगर्त्त- मवगुण्ठितः । सवीताङ्गो वेणुदलैः पत्रैर्मृण्मयभा- जनैः । छत्रं खनित्रं संस्थाप्य वारिपात्रमुपानहौ । ततो द्विजस्तूपविशेद्वस्त्रेणाच्छाद्य मस्तकम् । यज्ञोप- वीतं कर्णेऽथ धृत्वा मोनी च दक्षिणे । अग्रतो द्विज- मग्निं नो पश्यन् सन्तञ्च भास्करम् । गुरुं समीरणं सर्वदेवतामूर्त्तिमेव च । मातरं पितरं चन्द्रं सर्वं गुरुजनं स्त्रियम् । उदङ्मुखस्त्रिसन्ध्यासु दिवसे च यदा निशि । दक्षिणामुख उत्सर्गं कुर्य्यान्मूत्रपुरी- पयोः । पूर्वाह्णे तु द्विजः कुर्य्यात् पश्चिमाभिमुखो- ऽथ वा । अपराह्णे पूर्वमुखो मूत्रगूथविसर्जनम् । मध्याह्ने प्रयतः कुर्य्याद्यतवागुत्तरामुखः । दक्षिणाभि- मुखो रात्रौ द्विजो मैत्रं प्रयत्नतः । निशायामन्धकारे तु छायायां दिवसे तथा । यथेच्छं सुमुखो भूत्वा मैत्रं कुर्य्यात् द्विजो भयात् । दिग्भ्रमाच्च मनोदुःखाद्वि- ण्मूत्रस्य विसर्जनम् । मोहाद्वाऽधोमुखः कुर्य्याद्यत- वाकप्रयतो द्विजः । सन्न्यासी ब्रह्मचारी च वानप्रस्थो गृही द्विज! । शाखाध्यायी च वेदानां सर्वयज्ञेषु दीक्षितः । मुनिश्च सर्वधर्मज्ञो दान्तः शान्त उदारधीः । सदोत्तरमुखः कुर्य्याद्वैष्णवो नान्य एव च । प्रातश्च मैत्रं सायाह्ने दक्षिणामिमुखो निशि । योगिनान्तु तथा स्त्रीणां शूद्रादीनामयं क्रमः । न देवायतने वृक्ष- मूले च न जले नदे । न नदीकूपमार्गेषु न वापी- गोष्ठभस्मसु । न चिताग्निश्मशानेषु नोषरे न द्विजा- लये । नाम्भःसमीपे न पुण्ड्रे नाकाशे न च शाद्बले । न समुद्रे न काम्ये च न तीर्थे न द्विजाश्रमे । न यज्ञ- वृक्षमूलेषु नोपद्वारे चतुष्पथे । न शस्यक्षेत्रे न खले पुष्पोद्याने न चत्वरे । सोपानत्कोन नग्नश्च न रथ्या- [] सेव्यभूले । न वैष्णवालये गोत्रे न सूर्य्याभिमुख- स्तथा । न फालकृष्टकेदारे न तिष्ठंश्च सदाचन । न गच्छन्न च वल्मीके न च पर्वतमस्तके । न जलं न दिशोमागान्नाकाशमवलोकयन् । न गोव्रजे नदीतीरे नित्यस्थाने न गोमये । न यज्ञभूमौ न गृहे न पवित्रीकृतस्थले । द्विजो न देहच्छायायां शकृ- न्मूत्रविश्चजेनम् । कुर्य्याद् यज्ञेष्टकाकूटे न च सप्राणि- गर्त्तके । उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद! यत्नतः । कृत्वोत्सर्गं ततः कुर्य्यात् शौचं म्त्रपुरीषयोः । शुष्क- काष्ठेन लोष्टेनायज्ञीयेन तृणेन वा । प्रमार्ज्य गुह्य- मुत्तिष्ठेत् शिश्रञ्चैव विशेषतः । विधृत्य वामहस्तेन शिश्नं तूपविशेन्निशि । चेद्दक्षिणामुखः सन्ध्यां दिवोत्तर- मुखस्तदा । पूतिगन्धि जलं दुष्टं सफेनञ्च सबुद्बुदम् । तीर्थोदकं सलवणं पाथो वर्णान्तरन्तथा । समुद्रगा नदीवारः सामुद्रञ्च सकर्दमम् । यवनान्त्यजखाताम्भः समुद्रगनगोदकम् । धान्यक्षेत्रस्य सलिलं सकीटञ्च परित्यजेत् । मानवो देवखाताम्भः सकले शौचकर्मणि” । “मृदः सकीटास्तीर्थानां देवायतनगोष्ठयोः । नदोदधि नदीदेवखाततीरस्य मृत्तिकाः । महीतलोद्भवाः क्षेत्र कूड्ययोः सिकताश्च याः । अन्तर्जला धूलिमृदो वल्मीकस्य च कर्दमाः । उषरा
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पुरीषं, क्ली, (पिपर्त्ति शरीरमिति । प + “शॄ- पॄभ्यां किच्च ।” उणा० ४ । २७ । इति ईषन् । स च कित् ।) विष्ठा । इत्यमरः । २ । ६ । ६९ ॥ तदुत्सर्गविधिर्यथा, -- “मुहूर्त्ते ब्राह्म उत्थाय रात्रिवासं परित्यजेत् । परिधायापरं वस्त्रं शयनस्थानतोऽन्वहम् ॥ मुखाङ्घ्रिहस्तान् प्रक्षाल्य द्विराचम्य ततो द्विजः । कृष्ण कृष्ण स्मृतिं कृत्वा खनित्वा नैरृतीं दिशम् ॥ खनित्रखननेनैव द्बादशाङ्गुल्यधोमृदम् । गृहीत्वोदकपात्रञ्च मितं गच्छेद्धनुःशतम् ॥ ग्रामाद्बा शरविक्षेपमात्रामनुदिते रवौ । मैत्रमावश्यकं कर्त्तुं नगराच्च चतुर्गुणाम् ॥ तत्त्रिमुष्ट्यायतं गर्त्तं तथा कृत्वा गभीरकम् । कृत्वा त्वद्भिः खनित्रेण कुशैराच्छाद्य तत्तृणम् ॥ शुष्कैः काष्ठैरयज्ञीयैर्भूगर्त्तमवगुण्ठितः । संवीताङ्गो वेणुदलैः पत्रैर्मृण्मयभाजनैः ॥ छत्रं खनित्रं संस्थाप्य वारिपात्रमुपानहौ । ततो द्विजस्तूपविशेद्वस्त्रेणाच्छाद्य मस्तकम् ॥ यज्ञोपवीतं कर्णेऽथ धृत्वा मौनी च दक्षिणे । आगतो द्बिजमग्निं नोपश्यन् सन्तञ्च भास्करम् ॥ गुरुं समीरणं सर्व्वदेवतामूर्त्तिमेव च । मातरं पितरं चन्द्रं सर्व्वं गुरुजनं स्त्रियम् ॥ * ॥ उदङ्मुखस्त्रिसन्ध्यासु दिवसे च यदा निशि । दक्षिणामुख उत्सर्गं कुर्य्यान्मूत्रपुरीषयोः ॥ पूर्व्वाह्णे तु द्विजः कुर्य्यात् पश्चिमाभिमुखोऽथवा । अपराह्णे पूर्व्वमुखी मूत्रगूथविसर्जनम् ॥ मध्याह्ने प्रयतः कुर्य्याद्यतवागुत्तरामुखः । दक्षिणाभिमुखो रात्रौ द्बिजो मैत्रं प्रयत्नतः ॥ निशायामन्धकारे तु छायायां दिवसे तथा । यथेच्छसुमुखो भूत्वा मैत्रं कुर्य्यात् द्बिजो भयात् ॥ दिग्भ्रमाच्च मनोदुःखाद्बिण्मूत्रस्य विसर्ज्जनम् । मोहाद्वाधोमुखः कुर्य्याद्यतवाक् प्रयतो द्विजः ॥ सन्न्यासी ब्रह्मचारी च वानप्रस्थो गृही द्विजः । शाखाध्यायी च वेदानां सर्व्वयज्ञेषु दीक्षितः ॥ मुनिश्च सर्व्वधर्म्मज्ञो दान्तः शान्त उदारधीः । सदोत्तरमुखः कुर्य्याद्वैष्णवो नान्य एव च ॥ [] प्रातश्च मैत्रं सायाह्ने दक्षिणाभिमुखो निशि । योगिनान्तु यथा स्त्रीणां शूद्रादीनामयं क्रमः ॥ न देवायतने वृक्षमूले च न जले नदे । न नदीकूपमार्गेषु न वापीगोष्ठभस्मसु ॥ न चिताग्निश्मशानेषु नोषरे न द्बिजालये । नाम्भःसमीपे न पुण्ड्रे नाकाशे न च शाद्वले ॥ न समुद्रे न काम्ये च न तीर्थे न द्विजालये । न यज्ञवृक्षमूलेषु नोपद्वारे चतुष्पथे ॥ न शस्यक्षेत्रे न खले पुष्पोद्याने न चत्वरे । सोपानत्को न नग्नश्च न रथ्यासेव्यभूतले ॥ न वैष्णवालये गोत्रे न सूर्य्याभिमुखस्तथा । न फालकृष्टकेदारे न तिष्ठंश्च कदाचन ॥ न गच्छन्न च वल्मीके न च पर्व्वतमस्तके । न जलं न दिशो भागान्नाकाशमवलोकयन् ॥ न गोव्रजे नदीतीरे नित्यस्थाने न गोमये । न यज्ञभूमौ न गृहे न पंवित्रीकृतस्थले ॥ द्विजो न देहच्छायायां शकृन्मूत्रविसर्जनम् । कुर्य्याद्यज्ञेष्टकाकूटे न च सप्राणिगर्त्तके ॥ उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद ! यत्नतः । कृत्वोत्सर्गं ततः कुर्य्यात् शौचं मूत्रपुरीषयोः ॥ शुष्ककाष्ठेन लोष्ट्रेणायज्ञीयेन तृणेन वा । प्रमार्ज्य गुह्यमुत्तिष्ठेत् शिश्नञ्चैव विशेषतः ॥ विधृत्य वामहस्तेन शिश्नन्तूपविशेन्निशि । चेद्दक्षिणामुखः सन्ध्यां दिवोत्तरमुखस्तदा ॥ पूतिगन्धिजलं दुष्टं सफेनञ्च सबुद्वुदम् । तीर्थोदकं सलवणं पाथो वर्णान्तरन्तथा ॥ समुद्रगानदीवारः सासुद्रञ्च सकर्द्दमम् । यवनान्त्यजखाताम्भः समुद्रगनगोदकम् ॥ धान्यक्षेत्रस्य सलिलं सकीटञ्च परित्यजेत् । मानवो देवखाताम्भः सकले शौचकर्म्मणि ॥ * ॥ मृदः सकीटास्तीर्थानां देवायतनगोष्ठयोः । नदोदधिनदीदेवखाततीरस्य मृत्तिकाः ॥ महीतलोद्भवाः क्षेत्रकूड्ययोः सिकताश्च याः । अन
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "पुरीष" आता है (5)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें