पृथुकः, पुं, (पृथुरेव । पृथु + संज्ञायां कन् । यद्वा, प्रथते इति । प्रथ + “अर्भकपृथुकेति ।” उणा० ५ । ५३ । इति कुकन् संप्रसारणञ्च ।) त्तिपि- टकः । इत्यमरः ॥ क्लीवलिङ्गोऽप्ययम् । यथा, -- “द्विःस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके । नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने ॥ अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २७ अध्यायः ॥ (यथास्य गुणाः । “पृथुका गुरवो वल्या कफविष्टम्भकारिणः ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “पृथुका गुरवो भृष्टान् भक्षयेदल्पशस्तु तान् । यावा विष्टभ्य जीर्य्यन्ति सतुषा भिन्नवर्च्चसः ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “पृथुका गुरवः स्निग्धा बृंहणा कफवर्द्धनाः । बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्च्चसः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ [] चाक्षुषमन्वन्तरे देवगणभेदः । यथा, हरि- वंशे । ७ । ३२ । “आद्या प्रभूता ऋभवः पृथुकाश्च दिवौकसः ॥”)
पृथुकः, त्रि, (प्रथते इति । प्रथ + “अर्भकपृथुक- पाका वयसि ।” उणा० ५ । ५३ । इति कुकन् सम्प्रसारणञ्च । यद्वा, पृथु यथा स्यात् तथा कायति शब्दायते इति । कै शब्दे + कः ।) बालकः । इति मेदिनी । के, १२६ ॥ (यथा, माघे । ३ । ३० । “प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥”)
📄 मूल मुद्रित पृष्ठ (3-229-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।