फेनिलं, क्ली, (फेनोऽस्त्यस्येति । फेन + “फेना- दिलच्च ।” ५ । २ । ९९ । इति इलच् ।) कोलि- फलम् । (अस्य पर्य्यायो यथा, -- “पुंसि स्त्रियाञ्च कर्क्कन्धुर्वदरी कोलमित्यपि । फेनिलं कुवलं घोठा सौवीरं वदरं महत् । अजप्रिया कुहा कोली विषमो भयकण्टका ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) मदनफलम् । सफेने, त्रि । इति मेदिनी ॥ (यथा, महाभारते । १ । १५३ । १० । “उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥”)
फेनिलः, पुं, (फेन + इलच् ।) अरिष्टवृक्षः । इत्यमरः । २ । ४ । ३१ ॥ हारिठा इति ख्यातः ॥ (अस्य पर्य्यायो यथा, -- “अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः । रक्तबीजः पीतफेनः फेनिलो गर्भपातबः ॥” इति मावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) वदरवृक्षः । इति राजनिर्घण्टः ॥ (स्त्रियां टाप् । जलब्राह्मी । यथा, मुश्रुते उत्तरतन्त्रे ३९ अध्याये । “अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा ॥”)
📄 मूल मुद्रित पृष्ठ (3-386-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।