बन्धूकः, पुं, (बध्नाति सौदर्य्येण चित्तमिति । बन्ध + “उलूकादयश्च ।” उणा० ४ । ४१ । इति ऊकः ।) पीतशालकः । इति मेदिनी । के, १२८ ॥ पुष्पवृक्षविशेषः । वाँदुली इति वङ्गभाषा । दोपहरिया इति हिन्दी भाषा । तत्पर्य्यायः । रक्तकः २ बन्धूजीवकः ३ । इत्यमरः । २ । ४ । ७३ ॥ बन्धुकः ४ बन्धुः ५ बन्धुलः ६ बन्धुजीवकः ७ बन्धुजीवः ८ बन्धूलिः ९ बन्धुरः १० । इति शब्दरत्नावली ॥ रक्तः ११ माध्याह्निकः १२ । इति भावप्रकाशः ॥ ओष्ठपुष्पः १३ अर्क- वल्लभः १४ मध्यन्दिनः १५ रक्तपुष्पः १६ राग- पुष्पः १७ हरिप्रियः १८ । अस्य गुणाः । “असितसितपीतलोहितपुष्पविशेषात् चतुर्व्विधो बन्धूकः । ज्वरहरो विविधारिग्रहपिशाचशमनः प्रसादनः सवितुः स्यात् ॥” इति राजनिर्घण्टः ॥ “बन्धूकः कफकृद्ग्राही रक्तपित्तहरो लघुः ॥” इति भावप्रकाशः ॥ खधूपे, क्ली । वन्दूक इति ख्यातम् । यथा, -- “बन्धूको बन्धुजीवे स्यात् खधूपे स्यान्नपुंसकम् ॥” इति हड्डचन्द्रः ॥
📄 मूल मुद्रित पृष्ठ (3-395-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।