🕉️ 28 November 2026, Saturday · 10:13:14 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

रक्तपित्त
raktapitta
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
रक्तपित्त संज्ञा पुं॰ [सं॰]
१. एक प्रकार का रोग जिसमें मुँह, नाक, गुदा, योगि आदि इंद्रियों से रक्त गिरता है । विशेष—यह रोग धूप में अधिक रहने, बहुत व्यायाम करने, तीक्ष्ण पदार्थ खाने और बहुत आधिक मैथुन करने के कारण होता है । यह रोग स्त्रियों के रजोधर्म ठीक न होने के कारण भी हो जाता । है । यह रोग पित्त के कुपित होने से होता है ।
२. नाक से लहू बहना । नकसीर ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
रक्त—पित्त n. ‘bile-blood’, a partic. disturbance of the blood caused by bile, plethora, spontaneous hemorrhage from the mouth or nose, Suśr. &c.
📄 मूल मुद्रित पृष्ठ (861,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
रक्तपित्त न० रोगभेदे । तल्लक्षणादिकं भावप्र० उक्तं यथा “घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः । तीक्ष्णोष्ण- क्षारलवणैरम्लैः कदुभिरेव च । पित्तं विदग्धं स्वगुणै- र्विदहत्याशु शोणितम्” । तीक्ष्णं मरिचादि । उष्ण- मग्नितापादि । क्षारोयवक्षारादिः । विदग्धं स्वगुणैः स्वकारणैः गुणैस्तीक्ष्णादिभिः । गुणैरिति बहुत्वेन तीक्ष्ण म्ललवणकटूष्णघर्म्मादयो गृह्यन्ते विदहति दूषयति । अथ रक्तपित्तस्य सामान्यं लक्षणमाह “ततः प्रवर्त्तते रक्तमूर्द्धञ्चाधो द्विधाऽपि वा” । अत्र रक्त- मित्युपलक्षणम् । तेन संसृष्टं पित्तञ्च । अतएव रक्तञ्च पित्तञ्च रक्तपित्तमिति द्वन्द्व इति सुश्रुतः । रक्तञ्च तत् पित्तं चेति रक्तपित्तं रागप्राप्तं पित्तं रक्तमित्युच्यते रक्तं पित्तं कर्मधारयश्च इति चरकः । उभयत्रापि न दोषः कारणत्रयात् । कारणत्रयमाह “संयोगात् दूषणात् तत्तु सामान्यात् गन्धवर्णयोः । रक्तञ्च पित्तमाख्यातं रक्त- पित्तं मणीषिभिः” । मार्गानाह “ऊर्ध्वं नासाक्षिकर्णास्यै- र्मेढ्रयोनिगुदैरधः । कुप्रितं रोमकूपैश्च समस्तैस्तत्- प्रवर्त्तते” । कुपितं पित्तम् । पूर्वरूपमाह “सदनं शीत- कामित्वं कण्ठधूमायनं वमिः । लोहगन्धिश्च निश्वासो भवत्यस्मिन् भविष्यति” । “विशिष्टरूपमाह “सान्द्रं सपाण्डु सस्नेहं पिलिकं च कफान्वितम्” । वातिकमाह “श्या- [] वारुणं सफेतञ्च तनु रूक्षञ्च वातिकम्” । पैत्तिकमाह “रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् । मेच- काङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम्” । मेचकम् चिक्वणं कृष्णवर्णम् । अञ्जनं स्रोतोञ्जनं तदाभम् । संसर्गविशेषेण मार्गमेदमाह” “संसृष्टं लिङ्गसंसर्गाद्त्रिलिङ्गं सान्नि- पातिकम् । ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम् । द्विमार्गं कफबाताम्यामुभाभ्यां तत् प्रवर्त्तते” । उपद्रवानाह “दौर्बल्यं श्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा भुक्ते घोरोविदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा । तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठी- वनञ्च द्वेषो भक्तेऽविपाको विकृतिरपि भवेद्रक्तपितोप- सर्गाः” । विकृतिः मांसप्रक्षालनाभतादिः । साध्या- दिकमाह “एकदोषानुगं साध्यं द्विदोषात् याप्यमुच्यते । “यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् । ऊर्द्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम् । व्याधिभिः क्षीण- देहस्य वृद्धस्याऽनश्रतस्तु यत्” । अथ साध्यमाह “एकमार्गं बलवतो नातिवेगं नवोत्थितम् । रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम्” । सुखे काले हिम- शिशिरयोः । असाध्यमाह” “मांसप्रक्षालनाभं क्कथित- मिव च यत्कर्द्दमाम्भीनिभं वा मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम् । यत् कृष्णं यच्च नीलं भृशमपि कुखपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति” । उक्ता विकारा दौर्बल्यादयः । सुरपतिधनुषा तुल्यं नानावर्णम् । “येन चोपहतो रक्तं रक्तपित्तेन मानवः । पश्येद्भृशं वियच्चापि तदसाध्यमसंशयम्” । येन रक्तपित्तेनोपहतः मनुष्यः दृश्यं घटप्रटादिकं रक्तं पश्यति स नश्यति वियच्चापि अदृश्यमपीत्यर्थः । अथारिष्टमाह । “लोहितं छर्द्दयेद्यस्तु बहुशो लोहितेक्षणः । लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः” । लोहितोद्गारदर्शी व्याधि- महिम्नोद्गारमपि लोहितं पश्यतीत्यर्थः” ।
📄 मूल मुद्रित पृष्ठ (4785-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
रक्तपित्तं, क्ली, (रक्तदूषकं पित्तमिति । मध्यपदलोपी कर्म्मधारयः । “रक्तञ्च पित्तञ्च रक्तपित्त- मिति द्वन्द्ब इति सुश्रुतः । रक्तञ्च तत् पित्तञ्चेति रक्तपित्तं रागप्राप्तं पित्तमिति कर्म्मधारय इति चरकः ।”) रोगविशेषः । तस्य निदानं यथा, धन्वन्तरिरुवाच । “अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् । भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥ कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरतिसेवितैः । कुपितं पित्तलैः पित्तं द्रवं रक्तञ्च मूर्च्छयेत् ॥ [] ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम् । पित्तरक्तस्य विकृतेः संसर्गाद्दूषणादपि ॥ गन्धवर्णानुवृत्तेषु रक्ते न व्यपदिश्यते । प्रभवत्यसृजस्तस्मात् प्लीहतो यकृतश्च तत् ॥ शिरोगुरुत्वमरुचिः शीतेच्छा मधुकोत्कफः । छर्द्दितृट्छर्द्दिवैभत्स्यं काशः श्वासो भ्रमः क्लमः ॥ लोहितोऽलोहितो मत्स्यामगन्ध्यास्यञ्च विज्वरः । रक्तहारिद्रहरितवर्णता नयनादिषु ॥ नीललोहितपीतानां वर्णानामविचेतनम् । स्वप्ने तदर्थधर्म्मित्वं भवत्यस्मिन् भविष्यति ॥ ऊर्द्ध्वं नासाक्षिकर्णास्यैर्म्मेढ्रयोनिगुदैरधः । कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्त्तते ॥ ऊर्द्ध्वं साध्यं कफाद्यस्मात् तद्बिरेचनसाधितम् । बह्वौषधञ्च पित्तस्य विरेको हि वरौषधम् ॥ अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत् । कषायाः स्वादवो यस्य विशुद्धे श्लेष्मलोहिताः ॥ कटुतिक्तकषाया वा ये निसर्गात् कफावहाः । अधो याप्यञ्च नामुष्मात् तत् प्रवर्द्धनसाधनम् ॥ अल्पौषधञ्च पित्तस्य वमनं ननु चौषधम् । अनुबन्धि च लोपस्य शान्तपित्तनरस्य तत् ॥ कषायाश्च हितास्तस्य मधुरा एव केवलम् । कफमारुतसंस्पृष्टमसाध्यमुपनायनम् ॥ असह्यप्रतिलोमत्वादसाध्यादौषधस्य च । नहि संशोधनं किञ्चिदस्य च प्रतिलोमनम् ॥ शोधनं प्रतिलोमञ्च रक्तपित्ते विनिर्ज्जितम् । एवमेवोपशमनं सर्व्वशोधनमिष्यते ॥ संसृष्टेष्वाह दोषेषु सर्व्वथा छर्द्दनं हितम् । तत्र दोषोऽत्र गमनं शिवास्त्र इव लक्ष्यते । उपद्रवाश्च विकृतं फलतस्तेषु चाधिकम् ॥” इति गारुडे १५३ अध्यायः ॥ * ॥ तस्यौषधं यथा, -- “त्रिवृता त्रिफला श्यामा पिप्पली शर्क्करा मधु । मोदकः सन्निपातान्तो रक्तपित्तज्वरापहः ॥ वाशायां विद्यमानायामाशायां जीवितस्य च । रक्तपित्ती क्षयी कासी किमर्थमव्रसीदति ॥ अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः । क्षौद्राढ्यः कासनश्वासरक्तपित्तनिवर्हणः ॥” इति गारुडे १७४ अध्यायः ॥ * ॥ अपि च । “तत्र रक्तपित्तस्य निदानपूर्व्विकां संप्राप्तिमाह । ‘घर्म्मव्यायामशोकाध्वव्यवायैरतिसेवितैः । तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च । पित्तं विदग्धं स्वगुणैर्व्विदहत्याशु शोणितम् ॥’ तीक्ष्णं मरिचादि । उष्णोऽग्नितापादिः । क्षारो यवक्षारादिः । विदग्धं दूषितम् । स्वगुणैः स्वकारणैर्गुणैस्तीक्ष्णादिभिः । गुणैरिति बहु- त्वेन तीक्ष्णाम्ललवणकटूष्णघर्म्मादयो गृह्यन्ते । विदहति दूषयति ॥ * ॥ रक्तपित्तस्य सामान्य- लक्षणमाह । ‘ततः प्रवर्त्तते रक्तमूर्द्ध्वं वाधो द्बिधापि वा ।’ रक्तमित्युपलक्षणम् । तत्संसर्गि पित्तञ्च । अत- एव रक्तञ्च पित्तञ्च रक्तपित्तमिति द्बन्द्व इति [] सुश्रुतः ॥ रक्तञ्च तत् पित्तञ्चेति रक्तपित्तं राग- प्राप्तं पित्तमिति कर्म्मधारय इति चरकः ॥ मार्गानाह । ‘ऊर्द्ध्वं नासाक्षिकर्णास्यैर्म्मेढ्रयोनिगुदैरधः । कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्त्तते ॥’ कुपितमतिकुपितम् ॥ * ॥ पूर्व्वरूपमाह । ‘सदनं शीतकामित्वं कण्ठधूमायनं वमिः । लोहगन्धिश्च निश्वासो भवत्यस्मिन् भविष्यति ॥’ विशिष्टं रूपमाह । ‘सान्द्रं सपाण्डु सस्नेहं पिच्छिलञ्च कफान्वितम् । श्यावारुणं सफेणञ्च तनुरूक्षञ्च वातिकम्
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "रक्तपित्त" आता है (5)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬