रोदनं, क्ली, (रुद् + ल्युट् ।) क्रन्दनम् । (यथा, चाणक्यशतके । ६२ । “दुर्ब्बलस्य बलं राजा बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥”) अस्रु । इति मेदिनी । ने, ११९ ॥ तस्य शुभाशुभं यथा, -- “अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् । प्रचुराश्रु दीनं रूक्षञ्च रुदितं न सुखावहम् ॥” इति गारुडे ६६ अध्यायः ॥ कपिलाधेनूनां नेत्राम्बुना रत्नसमूहो जातः । यथा, -- “युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः ॥” इत्युपक्रम्य । “तदश्रुबिन्दुना मर्त्ये रत्नसंघो बभूव ह ॥” रोदनाश्रुपतनेन मृतानां नरकं स्यात् । यथा, -- “ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्त्र साम्प्र- तम् । [] रोदनाश्रुप्रपतनान्मृतानां नरकं ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २७ अध्यायः ॥ मृतमुद्दिश्य रोदननिषेधो यथा, -- “श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्य्या विधानतः ॥” इति शुद्धितत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (4-187-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।