विद, ऌ प श ञौ लाभे । इति कविकल्पद्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।) ऌ, अविदत् । प श ञ, विन्दति विन्दते । औ, वेत्ता । इति दुर्गादासः ॥
विद, क ङ ञ चेतनाख्यानवासवादे । इति कवि- कल्पद्रुमः ॥ (चुरा०-आत्म०-उभ०-च-सक०- वासे स्थैर्य्ये च अक०-सेट् ।) चेतना ज्ञानम् । वादः स्थैर्य्यम् । क ङ, वेदयते शास्त्रं धीरः [] जानातीत्यर्थः । वेदयते स्वार्थं लोकः आख्या- तीत्यर्थः । वेदयते तीर्थे साधुर्वसतीत्यर्थः । वेदयते वृक्षः स्थिरः स्यादित्यर्थः । ञ, वेदयति वेदयते । केचित्तु वादं न पठन्ति । चेतनास्थाने वेदनेति पठित्वा वेदयते वृद्धः व्यथते इत्यर्थः । इत्युदाहरन्ति । अस्माच्च परस्मैपदममन्यमाना जितां सपत्नेन निवेदयिष्यत इति निवेदनं करो- तीत्यर्थे ञौ समादधते । इति दुर्गादासः ॥
विद, ङ धौ मीमांसे । इति कविकल्पद्रुमः ॥ (रुधा०-आत्म०-सक०-अनिट् ।) मीमांसो विचारणम् । ङ ध, विन्ते शास्त्रं धीरः । औ, वेत्ता । इति दुर्गादासः ॥
विद, य ङ औ भावे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।) भावः सत्ता स चेह विद्यमानतैव । य ङ, विद्यते विष्णुः । औ, वेत्ता । इति दुर्गादासः ॥
विद, ल मतौ । इति कविकल्पद्रुमः ॥ (अदा०- पर०-सक०-सेट् ।) ल, वेत्ति । इति दुर्गा- दासः ॥
विदः, पुं, पण्डितः । विदधातोः कर्त्तरि कप्रत्ययेन निष्पन्नः ॥
📄 मूल मुद्रित पृष्ठ (4-386-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।