शास, उ क्ष लु शासने । इति कविकल्पद्रुमः ॥ (अदा०-पर०-सक०-सेट् । क्तावेट् ।) उ, शासित्वा शिष्ट्वा । क्ष, शासति । लु, शास्ति । शास्ति यश्चाज्ञया राज्ञः स सम्राडित्यमरः । इति दुर्गादासः ॥
शास ङ उ आशिषि । इति कविकल्पद्रुमः ॥ (भ्वा०-अदा० च-आत्म०-सक०- सेट् ।) आङ्पूर्व्वा इति केवलानामन्यपूर्व्वा- णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः पूर्व्वेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते प्रपूर्व्वोऽपि दृश्यते । ङ, आशासते । उ, आशा- सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात् क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द- भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया इकारो न स्यात् । आशीरिष्टार्थाशंसनम् । इच्छायामित्यन्ये । इति दुर्गादासः ॥
शास ल ङ आशिषि । इति कविकल्पद्रुमः ॥ (भ्वा०-अदा० च-आत्म०-सक०- सेट् ।) आङ्पूर्व्वा इति केवलानामन्यपूर्व्वा- णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः पूर्व्वेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते प्रपूर्व्वोऽपि दृश्यते । ङ, आशासते । उ, आशा- सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात् क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द- भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया इकारो न स्यात् । आशीरिष्टार्थाशंसनम् । इच्छायामित्यन्ये । इति दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (5-067-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।