सूतिका, स्त्री, (सू + क्तः । टाप् । ततः स्वार्थे कन् । यद्वा, सूतं प्रसवोऽस्त्यस्यामिति । ठन् ।) नवप्रसूता । यथा, -- “शावस्योपरि शावे तु सूतकोपरि सूतके । शेषाहोभिर्व्विशुद्धिः स्यादुदक्यां सूतिकां विना ॥” इति शुद्धितत्त्वम् ॥ * ॥ [] तदन्नभोजनप्रायश्चित्तं यथा । शङ्खः । “चाण्डालान्नं मूमिपान्नमजजीविश्वजीविनाम् शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रती भवेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ तदवलोकनतदालपनतत्संस्पर्शनिषेधो यथा -- “नालपेत् जनविद्विष्टान् वीरहीनां तथा स्त्रियम् । देवता-पितृसच्छास्त्रयज्ञसत्रादिनिन्दकैः ॥ कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात् । अवलोक्य तथादक्यामन्त्यजं पतितं शवम् ॥ विधर्म्मिसूतिकाषण्डविवस्त्रान्तावसायिनः । मृतनिर्यातकांश्चैव परदाररतांश्च ये । एतदेव हि कर्त्तव्यं प्राज्ञैः शोधनमात्मनः ॥” पारिभाषिकसूतिकालक्षणं यथा, -- “अभोज्यसूतिकाषण्ढमार्जाराखूंश्च कुक्कुटान् । पतितापविद्धचाण्डालमृतहारांश्च धर्म्मवित् ॥ संस्पृश्य शुध्यते स्नानात् उदक्याग्रामसूकरौ । तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि ॥ अलर्क उवाच । भवत्या कीर्त्तिता भोज्या य एते सूतिकादयः । अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि ह ॥ मदालसोवाच । ब्राह्मणी ब्राह्मणश्चैव यावत्शेषत्वमागतौ । तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ वामनपुराणे १४ अध्याये च द्रष्टव्यम् ॥
📄 मूल मुद्रित पृष्ठ (5-393-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।