अन जीवने अदा० पर० अक० सेट् । अनिति आनीत् । घञ् आनः, अच् अनः, ल्युट् अननम् । आनयति अनिनिषति । क्विप् अत् “सर्वं खल्विदं ब्रह्म तज्जलानिति विश्वे च- नेदना ऋ० ४३०, ३, अना प्राणेनेति भा० छा० उप० “यद्येष आकाश आनन्दो न स्यात् कोह्येवान्यात्? कः प्राण्यात्? इति श्रुतिः “प्राणिवस्तव मानार्थमिति” भट्टिः । प्राद्युपसर्गतोविशेषगत्यर्थता । प्र + प्राग्गतौ, प्राणः अप + अधोगतौ अपानः, उद् + उर्द्ध्वगतौ उदानः, वि + आ + विष्वग्गतौ व्यानः, सम् + समन्ताद्गतौ समानः । “यद्वै प्राणिति स प्राणः यदपानिति सोऽपानः” इति श्रुतिः । जीवनं च प्राणधारणं तेन धात्वर्थगृहीतकर्मकत्वादकर्मकः यस्य संयोगात् देहनिर्म्माणमित्युक्तमधिष्ठानशब्दे । उप- सर्गनिमित्तात् हलन्तत्वेऽप्यस्य णत्वं प्राण् ।
अन जीवने दिवा० आत्म० अक० सेट् । अन्यते आनिष्ट ।
अन पु० आ + नी--बा० ड पृ० आङी ह्रस्वः अन--बा० अच् वा । आनयने प्राणने च “प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण इति” बृ० उप० । “अथ प्राण उच्यते । प्राणो मुखनासिकसञ्चार्य्याहृदयवृत्तिः । प्रण- यनात् प्राणः । अपनयनान्मुत्रपुरीषादेरपानोऽधोवृत्तिः आ- नाभिस्थानः । व्यानो व्यानयनकर्मा, व्यानः प्राणापानयोः सन्धिर्वीर्य्यवत्कर्म्महेतुश्च । उदान उत्कर्षोर्द्ध्वगमनादिहेतुरा- पादतलमस्तकस्थान ऊर्द्ध्ववृत्तिः । समानः समं नयनाद्भुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता । अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टासम्बन्धिनी वृत्तिरेवं यथोक्तं प्रणादिवृत्तिजातमेतत् सर्वं प्राण एवेति” भा० । प्राणे च “स होवाच किं मेऽन्नं भविष्यतीति” यत्किञ्चिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्धा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षमिति छा० उ० “स होवाच मुख्यः प्राणः, किं मेऽन्नं भविष्यतीति” मुख्यप्राणं प्रष्टारमिव कल्पयित्वा वागादीन् प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह । यदिदं लोकेऽन्नजातं सर्वप्रसिद्धमा श्वभ्य आ श्वभिः सह, आ शकुनिभ्यः सह शकु- निभिः सर्वं प्राणिनां यदन्नं तत्तवान्नमिति होचुर्वागादय इति । प्राणस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवंप्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेणाह । तद्वै एत- द्यत्किञ्चिल्लोके प्राणिभिरन्नमद्यते अनस्य प्राणस्य तदन्नम् भा०
📄 मूल मुद्रित पृष्ठ (0143,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।