अर्द्द पीडने भ्वादि० उभ० सक० सेट् । अर्द्दति ते आर्द्दीत् आर्द्दिष्ट । “रक्षःसहस्राणि चतुर्द्दशार्दीत्” रघुः । आनर्द्द अर्द्दकः अर्द्दी अर्द्दित्वा अर्द्दितः । अति--अतिपीडने । अत्यर्द्दितः अभि + आभिमुखेन पीडने । “अभेश्वाविदूर्य्ये” पा० उक्तेः सामीप्ये च अभ्यर्ण्णः समीपवर्त्ती “कालोभ्यर्ण्ण जलागमः” सा० द० । अन्यत्र अभ्यद्दितः । निस् + निर् [] + वा--भृशपीडने । “सोऽस्यायं पराङेव प्राणो निरर्दति” शत० व्रा० । वि + विशेषेण पीडने “तद् या ऊर्म्मी व्यर्द्दतः पशौ वा पुरुषे वा” शत० व्रा० । सम् + समर्ण्णः नि + न्यर्ण्णः वि + व्यर्ण्णः ।
अर्द्द याचने, गतौ, सक० पीडायां अक० भ्वादि० पर० सेट् । अर्द्दति आर्द्दीत् । याचने “शरद्घनं नार्द्दति चात- कोऽपीति” रघुः ।
अर्द्द बधे चुरा० उभय० सक० सेट् । अर्द्दयति ते आर्द्दि- दत् त । “येनार्द्दिदत् दैत्यपुरं पिनाकी” भट्टिः । “अव्यर्ण्णो गिरिकूटाभानभ्यर्ण्णानार्द्दिदत् द्रुतम्” भट्टिः । सम् + सम्यक्पीडने “यन्तारमस्य सहसा त्रिभिर्वाणैः समा- र्द्दयत्” भा० व० प० प्रति + प्रतिरूपपीडने यस्य यत्कर्त्तृकं पीडनं तेनैव पुनस्तस्य पीडने “प्रत्यर्द्धयत संक्रुद्धो राघवः पुनराहवे” रामा० ।
📄 मूल मुद्रित पृष्ठ (0373-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।