आढकं, क्ली, (आ समन्तात् ढौकते ढौक्यते वा ढौक गतौ अच् घञ् वा पृषोदरादिः । परि- माणविशेषः । आढा इति भाषा । यथा, -- “शतयोजनविस्तीर्णं त्रिंशद्योजनमायतं । आढकस्य भवेन्मानं मुनिभिः परिकीर्त्तितं” ॥ अपि च ॥ “त्रिंशद्योजनविस्तीर्णं शतयोजनमायतं । विंशयोजनगम्भीरमाढकं परिकीर्त्तितं” ॥ इति गणपतिभट्टः । इति ज्योतिस्तत्त्वं ॥
आढकः, पुं, क्ली, चतुःप्रस्थपरिमाणं । आडी इति भाषा । इत्यमरः ॥ द्रोणचतुर्थभागः । इति लीलावती ॥ अष्टमुष्टिर्भवेत् कुञ्चिरित्यादिवचनात् षट्पञ्चाशदधिकद्विशतमुष्टिर्भवति । व्यवहारे षो- डशसेरो विंशतिसेरो वा । वैद्यकमते अष्टश- रावपरिमाणं । तत्पर्य्यायः । पात्रं २ कंसं ३ भाजनं ४ । इति परिभाषा ॥ (“चतुःप्रस्थैस्तथाढकं । भाजनं कांस्यपात्रञ्च चतुःषष्टिपलञ्च तत्” ॥ इति शार्ङ्गधरः । “चतुःप्रस्थमयाढकं । “पात्रंतदेव विज्ञेयं कंसंप्रस्थाष्टकन्तथा” ॥ इति चरकः ।) अपचयविवक्षायां आढकिकेत्यपि स्यात् । इत्य- मरटीकासारसुन्दरी ॥ आढिका । इति भरतः ॥
📄 मूल मुद्रित पृष्ठ (1-169-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।