आप प्राप्तौ वा चुरा० उभ० पक्षे स्वादि० प० सक० अनिट् । आपयति ते आपिपत् त । पक्षे आप्नोति आप्नुतः आप्नुवन्ति आप्नुयात् आप्नोतु आप्नोत् आप्नुवम् । आपत् आप आपथुः आपुः आपिथ । आप्ता आप्यात् आप्स्यति आप्स्यत् । आप्तव्यः आप्यम् आपनीयम् आप्ता आप्तः आप्तिः आत्वा अवाप्य । क्विप् ह्रखः आपः अपः अद्भिः । असुन् आपः । शतृ आप्नुवन् ताच्छील्ये चानश् आप्नुवानः । “अयशोमहदाप्नोति” “इहाग्र्यां कीर्त्ति- माप्नोति” मनुः । “नत्वेवाधौ सोपकारे कौषीदीं वृद्धिमा- प्नुयात्” या० स्मृतिः “पुत्रमेवंगुणोपेतं चक्रवर्त्तिन- माप्नुहि” शकु० “येन श्रेयोहऽमाप्नुयाम्” गीता “स दुष्पा- पयशाः प्रापत्” रघुः । “शतं क्रतूनामपविघ्नमाप सः” रघुः । “यदिदं सर्वं मृलुनाप्तम्” श्रुतिः “नानवाप्तमवाप्तव्यं वर्त्त एव च कर्म्मणि” गीता । कर्म्मणि आप्यते आपि । प्रेरणे णिच् । आपयति ते आपिपत् त । सन् ईप्सति ईप्सितः । प्र--प्रकर्षेणाप्तौ प्राप्नोति प्राप्तः प्राप्तिः “अप्राप्तस्य च याप्राप्तिःसंयोगः स उदाहृतः” भाषा० । सम् + संपूर्ण्णतायां समाप्तः समाप्तिः समापनम् । अव + प्राप्तौ, “अनवाप्तमवाप्तव्यम्” गीता “तपः किलेदं तदवाप्ति साधनं” कुमा० । परि + प्रचुरत्वे समर्थत्वे समुदितत्वे पर्य्याप्तः पर्य्याप्तिः । “सहि धर्मः सुपर्य्याप्तः सर्वस्य पदवेदने” गीताभा० । [] “अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्य्याप्त त्विदमेतेषां बलं भीमाभिरक्षितम्” गीता । अनु + प्रा--पश्चात्प्राप्तौ “नदीं गङ्गामनुप्राप्ताः” भा० आ० प० । वि + विशेषेण आप्तौ व्याप्तिः व्याप्तः, व्याम्यः व्यापकः व्याप- नम् “व्याप्तस्य पक्षधर्मत्वधीःपरामर्श उच्यते” । “व्याप्तिः साध्यवदन्यस्तिन्नसम्बन्ध उदाहृतः” भाषा० । “अस्यात्मनेप- दित्वमपि स्वाराज्यं प्राप्स्यते भवान्” इति दुर्गादासः ।
आप पु० आप्यते आप--कर्मणि घञ् । अष्टसु वसुषु मध्ये ४ र्थे बसौ, “धरो ध्रुवः सोमनामा तथापोऽप्यनिलो- ऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः” विष्णु ध० । “सव्यदक्षौ वसोर्यस्य चोर्द्धौ हस्तौ सशक्तिकौ । सीराङ्कुशान्वितौ चाधः स भवेदापसंज्ञकः” इति तद्ध्यानम् “आपश्चैवानिलश्चैव ववर्षतुररिन्दमौ” हरिवं० २४५ अ० देवासुरयुद्धे । “आपस्य दुहिता भार्य्या सहस्य परमा प्रिया! भूपतिर्भुवभर्त्ता चाजनयत् पावकं परम्” भा० व० २२१ अ० । भा० आ० प० ६६ अ० तु “धरोध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टा- विति स्मृताः । धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा । चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा । वाता- याश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः । प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ” इति आपस्थाने अह इति नामान्तरत्वेन कीर्त्तितम् कल्पभेदादविरुद्धम् । प्रभासस्यैव द्युनामता अष्टमस्य वसोः आपगेयशब्दे दर्शयि- ष्यमाणे भा० ९९ अध्याये द्युनामतोक्तेः अपां समूहः अण् । २ जलसमूहे न० । ३ आकाशे निरुक्त० । तस्य सर्वर्मूत्तसंयोगित्वात्तथात्वम् ।
📄 मूल मुद्रित पृष्ठ (0740-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।