आम्र पु० अम--गत्यादिषु रन् दीर्घश्च । १ स्वनामख्याते वृक्षे तस्य फलम् अण् तस्य लुक् । २ तत्फले च न० । आम्रस्य फलपुष्पादिगुणा उक्ता भा० प्र० । यथा “आम्र- पुष्पमतीसारकफपित्तप्रमेहनुत् । असृग्दुष्टिहरं शीतं रुचिकृत् ग्राहि वातलम् । आम्रं बालं कषायाम्लं रुच्यं मारुतपित्तकृत् । तरुणं तु तदत्यम्लं रूक्षं दोषत्रया स्रकृत् । आम्रमामं त्वचा हीनमातपेऽती व शीषितम् अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित् । पक्वन्तु मधुरं वृष्यं सिग्धं शुक्रबलप्रदम् । गुरु वातहर हृद्यं बल्यं शीतमपित्तलम् । कषायानुरसं यह्निश्लेष्मशुक्र- विवर्द्धनम् । तदेव वृक्षसम्पक्वं गुरु वातहरं परम् । मधुराम्लं सरं किञ्चित् भवेत् पित्तप्रकोपणम् । आम्रं कृत्रिमपक्वं यत्तद्भवेत् पित्तनाशनम् । रसस्याम्लस्य हानेस्तु माधुर्याच्च विशेषतः । चूषितं तत् परं रुच्यं बलवीर्य्यकरं क्षघु । शीतलं शीघ्रपाकि स्याद्वा- तपित्तहरं सरम् । तद्रसोगालितो बल्यो गुरुर्वात [] हरः सरः । अहृद्यस्तर्पणोऽतीव वृंहणः कफवर्द्धनः । तस्य खण्डं गुरु परं रोचनं चरिपाकि च । मघुरं वृंहणं बल्यं शीतलं वातनाशनम् वातपित्तहरं रुच्यं वृंहणं बलवर्द्धनम् । वृष्यं वर्णकरं स्वादु दुग्धाक्तं गुरु शीतलम् । मन्दानलत्वम् विषमज्वरञ्च रक्तामयं बद्ध गुदोदरञ्च । आम्रातियोगो नयनामयञ्च करोति तस्मा- दति तानि नाद्यात् । एतदम्लाम्रविषयं मधुराम्रं परं न तु । मधुरस्य परं नेत्रहितत्वाद्या गुणायतः । शुण्ठ्य- म्भस्त्वनुपानं स्यादाम्राणामतिभक्षणे । जीरकं वा प्रयो- क्तव्यं सह सौवर्चलेन च । आम्रवीजं कषायं स्याच्छर्द्यतीसार नाशनम् । ईषदम्लञ्च मधुरं तथा हृदयदाहनुत् । आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम्” । पल्लवमत्र नव दलम् । अस्य शाकपाकप्रकारस्तत्रैव “स्विन्ना निष्पीडिताः कामं कोकिलाहारपल्लवाः । घृतसिन्धूत्थसंसिद्धा- रुच्या रामठवासिताः । सर्पिषा खण्डयुक्तास्ते तलि- ताश्चाम्रपल्लवाः । लवङ्गार्द्रकसंयुक्तामरीचै रुचिकारकाः” । अस्य पल्लवमुकुलानां पाकप्रकारस्तत्रैव “आम्रस्य चैव नव- ताम्ररुचिप्रबालाः खण्डीकृतालवणमिश्रितपिण्डिताश्च । वाह्लीकधूपनजुघोघृतदुग्धसिद्धाः सन्दीपयन्ति पवनस्य सखायमेते । मुकुलः सहकारशाखिनः शृतखण्डी- कृतसैन्धवान्वितः । दधिमन्थमरीचसंस्कृतश्चिरजाताम- रुचिं छिनत्ति हि । कफपित्तहरौ हृद्यौ मुखवैरस्य नाशनौ । वह्निसञ्जननौ रुच्यौ चूतजौ पुष्पपल्लवौ । आम्रमामं जलस्विन्नं मर्द्दितं दृढपाणिना । सिताशीता- म्बुसंयुक्तं कर्पूरमरिचान्वितम् । प्रपानकमिदं श्रेष्ठं भीमसेननिर्म्मितम् । सद्योरुचिकरं बल्यं शीघ्रमिन्द्रिय तर्पणमिति” ।
📄 मूल मुद्रित पृष्ठ (0769-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।