आस उपवेशनेअदादि० आ० अक० सेट् । आस्ते आस्ताम् आसते आसीत आस्ताम् आस्स्व आद्ध्वम् आस्त आसत आसिष्ट आसांबभूव आसामास आसाञ्चक्रे आसिता आसिष्यते । आसीनः आसितम् आसितवान् आसितुम् आसिता आस्तिः आसः आसनम् आसना “य आस्ते मनसा स्मरन्” गीता “दिवि देवास आसते” ऋ० १, २०, २ । “आसीतामरणात् क्षान्ता” नासीत गुरुणा सार्द्धं शिला- फलकनौषु च” इति च मनुः । “सुखितमास्स्व ततः शरदां शतम्” सा० द० । “निबद्ध्वमाध्वं पिबतात्त शेध्वम्” भट्टिः । “जगन्ति यस्यां सविकाशमासत” माघः । “आसिष्ट नैकत्र शुचा व्यरंसीत्” भट्टिः भावे आस्यते “आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः” मनुः । “इच्छामि नित्य- मेवाहं त्वया पुत्र । सहासितुम्” भा० व० । अ० “जन- कोह वैदेह आसाञ्चक्रे” शत० व्रा० १४, ६, १, १ । तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः” भट्टिः “कैलास- शिखरासीनम्” तन्त्रम् “आसीनानां सुरभितशिलं नाभि- गन्धैर्मृगाणाम्” मेघदू० । “आसितं भाषितं चैव मतं यच्चाप्यनुष्ठितम्” रामा० । “जृम्भासितादिकृत” सा० द० । अधि--अध्यारोहणे सक० । गगनमध्यमध्यास्ते दिवाकरः काद० “छायामध्यास्य सैनिकाः “ययौ मृगाध्यासित- शाद्वलानि” इति च रघुः । जम्बूविटपमध्यास्ते परभृता” विक्रमो० । “आचख्यौ दिवमध्यास्स्व [] शासनात् परमेष्ठिनः” रघुः । अत्राधारस्य कर्म्मता । अनु--पश्चादुपवेशनेन सेवने सक० । “अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्” रघुः । “वृतः सखायमन्वास्ते सदैव धनदं नृपः” भा० स० १० अ० । अभि--आभिमुख्येन स्थितौ नैकट्ये च अक० अभ्यासः अ- भ्यासोयत्ते कपूययोनिमापद्येरन्” छा० उ० । उद्--औदास्ये प्रकृतकर्म्मण उपरमे अक० “विधाय वैरं सामर्षे नरोऽरौ य उदासते” माघः । “उदासीनवदासीनः” गीता उप--सेवने सक० । “नोपास्ते यश्च पश्चिमाम्” मनुः । “उपास्येते हरिहरौ लकारोदृश्यते यतः” वाक्यप० । “वायुवच्चानुगच्छन्ति तथा दीनानुपासते” मनुः । “ऋतवस्त- मुपासते” कुमा० । परि--उप--उपासनस्य प्रकर्षार्थे “यथैव क्षुधिता बाला मातरं पर्य्युपासते” “पितामहं च के तस्यां सभायां पर्य्युपासते” भा० स० १ अ० । (एनम्) “भुजङ्गाःपर्य्युपासते” कुमा० । सम्--उप--सम्यगुपासने सक० । “समुपास्यत पुत्रभोग्यया” रघुः परि--परितः स्थितौ अक० सम्यक् सेवने सक० । तामेतद्देवाश्च पर्य्यासते ये चेमे ब्राह्मणाः” शत० ब्रा० । सम्--सम्यक् स्थितौ उपवेशने च । “भोगिभोगसमासीनम्” “पश्चिमां तु समासीनः” मनुः ।
आस पु० आस--घञ् । १ आसने २ स्थितौ ३ उपवेशने आस्यतेऽ- नेन करणे घञ् । ४ उपवेशनस्थाने गुह्यपार्श्वभागे “यथा कप्यासं पुण्डरीकमेवमस्याक्षिणी” छा० उ० छान्दसं न० । अस्यते क्षिप्यतेऽनेन अस--करणे घञ् । ५ धनुषि “स सासिः सासुसूः सासः” किरा० “सासः सचापः” मल्लि० । इष्वासः अस क्षेपे भावे घञ् । ६ विक्षेपे निरासः ।
📄 मूल मुद्रित पृष्ठ (0878-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।