उखा स्त्री उख--क । १ पाकपात्रे पिठरादौ । (हाँडि) । [] “यन्नीक्षणं मांस्पवन्या उखाया उत पात्राणि यूष्ण आसेचनानि” ऋ० १, १६२, १३ । ऋचमेतामाश्रित्यैव “मांस्पवन्या उखायाः” इति पा० भाष्यकृतोदाहृतम् । यज्ञियेष्टकासाधने २ चूल्लीरूपे पदार्थेतत्करणप्रकारः कात्या० श्रौ० १६, १, १, सूत्रादौ उक्तः तच्च इष्टकाशब्दे ९९१ पृष्ठे दर्शितम् । “उखास्रत्” सि० कौ० शत० ब्रा० तु स्थालीपरो- खाशब्दस्य निरुक्तिरन्यथैवोक्ता यथा । “अथेनमुखयान्नं बिभर्त्ति इमे वै लोका उखा इमे वा एतं लोका यन्त- मर्हन्ति एभिरेतं लोकं देवा अबिभरुरेभिरेवैनमेतल्लोकैर्बि- भर्त्त्योषा यदुखा नाम एतद्वै देवता वैतेन कर्मणैतयावृ- तेमाँ लोकानुदखनन् यदुखनंस्तस्मादुत्खा उत्खा वैता- मुखेत्याचक्षते परोक्षं, परोक्षकामा हि देवाः” ६, ७, १, २२, २३ । अस्य “न क्रोडादिबह्वच” पा० क्रोडादिग- णपाठत् स्वाङ्गवाचिताऽपि तेन वृहदुखेत्यत्र न ङीष् उखायां संस्कृतं यत् । उख्य तत्र संस्कृते त्रि० । भवार्थे दिगा० यत् । उख्य उखाभवे त्रि० । तस्य वर्ग्यादि० कर्म्मधारयसमासे आद्योदात्तता ।
📄 मूल मुद्रित पृष्ठ (1055-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।