उत्तमाङ्ग न० कर्म्म० । मस्तके । “बभौ पतद्गङ्ग इवोत्तमा- ङ्गे” कुमा० । “कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः” रघुः । “पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन” मनुः । मस्तकस्य अङ्गेषूत्तमत्वं चक्षुरादीन्द्रियाधारत्वात् प्राणवायुसञ्चा- रस्थानत्वात् सर्वेषामङ्गानामुपरिवर्त्तमानत्वाच्च । अतएव “गर्भस्य हि सम्भवतः प्रथमं शिरः सम्भवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रियाणाम्” सुश्रु० शौनकीयमते इन्द्रि- यमूलत्वमस्योक्तम् “तच्च शरीरम् षडङ्गं शाखाश्चतस्रो मध्यं पञ्चमं षष्ठं शिर” इति सुश्रु० षडङ्गविभागे हस्तपादानां चतुर्ण्णां शाखात्वेन मध्यमस्य मध्यत्वेन उप्रवर्ण्य- सर्वशेषे शिरसः कथनं पूर्वोक्तहेतोः प्राधान्यात्तस्येति बोध्यम् । प्रत्यङ्गविभागेऽपि “मस्तकोदरेत्यादिना सुश्रु० मस्तकस्य प्रथमनिर्देशः प्राधान्यादेव लोके- ऽपि मस्तकच्छेदनेऽवशिष्टाङ्गैः न प्रत्यभिज्ञा छिन्न- मस्तकमात्रेण तु प्रत्यभिज्ञा इत्यतो मस्तकस्य प्रत्यभिज्ञा- साधनत्वादपि उत्तमत्वम्” कथमन्यथा देवदत्तादिदेहस्य हस्तादिषु च अङ्गेषु मध्ये हस्तादिना न प्रत्यभिज्ञा इत्यतः मस्तकस्य उत्कृष्टत्वम् । हस्तादिच्छेदनेऽपि जीवनसम्भवात् मस्तकस्य छेदने तदभावादपि मस्तकस्य प्राधान्यमित्यपि मन्तव्यम् ।
📄 मूल मुद्रित पृष्ठ (1090,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।