उष दाहे बधे च भ्वा० पर० सक० सेट् । ओषति औषीत् औषाम् बभूव आस चकार उवोष ओषित्वा । णोषितः--उषितः । उष्मा । कर्म्मणि उष्यते ओषामासे ऊषे “ओषामासे मत्सरो त्पातवाताश्लिष्यद्दन्तक्ष्मारुहाम्” माघः । “हिरण्यमायु- रन्नञ्च भूर्गौश्चाप्योषतस्तनुम्” मनुः । “दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम्” मनुः ओषाञ्चकार कामाग्नि- र्दशवक्त्रमहर्निशम्” भट्टिः “चिचेत रामस्तत्कृच्छ्रमोषाञ्चक्रे शुचेश्वरः” भट्टिः तस्य “मूत्रप्रतीघातादुष्यते चूष्यते दह्यते पच्यते इव” सुश्रुतः ।
उष दाहे बधे च भ्वा० पर० सेट् उदित् सक० सेट् । ओषति औषीत् ओषाम् बभूव--आस--चकार उवोष । उदित्त्वात् ओषित्वा उष्ट्वा वेट् । क्त । उष्टः । ओषणः । अभि--सर्व्वतो दाहे । “योऽभ्युष्टमिश्र इव” शत० ब्रा० ११, २, ७, २३ । अभित ओषणं अभ्युष्ट सर्व्वतोदाहः तेन- भिश्र इव” भा० । अव--अधःसन्तापनेन दाहे । अवोषः अधोभागे दग्धो अन्नभेदः अपूपादि० । उद्--आधिक्येन दाहे । “मा मोदोषिष्टम् मा मा हिंसिष्ट- म्” शत० ब्रा० १, ५, १, २५ । “युवां मामुत्कृष्टमाधि- क्येन वा उदोषिष्टं दाहं काष्टम्” भा० । उप--सामीप्येन दाहे । “अग्निना वा कक्षमुपोषेत्” आश्व० गृ० २, ४, ९ । तमग्निभिः समुपोषेत्तदेनम्” शत० ब्रा० १२, ५, १, १३ । उपवासे च उपोषणम् । प्रति--प्रतिदाहे । “स त्वमग्ने प्रतीकेन प्रत्योषः यातुधान्यः” ऋ० १०, ११८, ८ । प्रत्येकदाहे च “प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः” यजु० १, ७, “प्रत्युष्टं प्रत्येकं दग्धम्” वेददी० ।
उष त्रि० उष--क । १ दाहके २ सन्ध्यात्रयसमये ३ कामिनि ४ गुग्गुलौ । ५ रात्रिशेषे पु० मेदि० । रात्रिशेषश्च मुहूर्त्ता- त्मककालः पञ्चपञ्चाशदघटिकोत्तरसूर्यार्द्धोदयपर्यन्त- कालः । ६ दिवसे पु० ।
📄 मूल मुद्रित पृष्ठ (1377,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।