🕉️ 20 November 2026, Friday · 03:13:14 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

एकाग्र
ekāgra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
एकाग्र १ वि॰ [सं॰]
१. एक और स्थिर । चंचलता से रहित ।
२. अनन्यचित्त । जिसका ध्यान एक ओर लगा हो । यौ॰—एकाग्रचित्त । एकाग्रदृष्टि । एकाग्रभूमि । एकाग्रमन ।
एकाग्र २ संज्ञा पुं॰ .योग में चित्ता की पाँच वृत्तियों या अवस्थाओं में से एक जिसमें चित्ता निरंतर किसी एक ही विषय की ओर लगा रहता है । ऐसी अवस्था योगसाधना के लिये अनुकूल और उपयुक्त कही गई है । वि॰ 'चित्तभूमि' ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
एकाग्र mfn. one-pointed, having one point, fixing one's attention upon one point or object, closely attentive, intent, absorbed in MBh.; Mn. i, 1; BhP.; Bhag. &c.
undisturbed, unperplexed
known, celebrated, L.
एकाग्र n. (in math.) the whole of the long side of a figure which is subdivided
📄 मूल मुद्रित पृष्ठ (230,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
एकाग्र त्रि० एकमग्रं विषयप्रवणता यस्य । १ विषयान्तरव्या- वृत्तैकमात्रविषयकचित्तवृत्तिके २ विक्षेपरहितज्ञाने च । “मनुमेकाग्रमासीनमभिगम्य महर्षयः” मनुः । स्वार्थे अण् । ऐकाग्र अत्रार्थे त्रि० । तस्य भावः ष्यञ् ऐकाग्र्य तद्भावे न० “मनसश्चेन्द्रयाणाञ्चाप्यैकाग्र्यं निश्चितं तपः” भा० व० २५ अ० । “तद्गीतिश्रवणैकाग्र्या संसदश्रुमुखो बभौ” रघु० । तल् एकाग्रता स्त्वी, त्व एकाग्रत्व न० तत्रार्थे । एकाग्रता च चित्तस्य धर्म्मविशेषः विषयान्तरावलम्ब नरूपसंसर्गशून्यः । एकविषयकधारावाहिकवृत्तिरूपः स च त्रिगुणात्मकस्य चित्तस्य सत्वगुणोद्रेके रजोगुण कृतविक्षेपाभावात् तमोगुणकृततन्त्राद्यभावाच्च उदेति । तत्र बाह्याभ्यन्तरकारणाग्युक्तानि” पात० सू० भाष्यविवरणेषु यथा “यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म्म निर्द्दिश्यते, तत्कथम्? भा० । “मैत्रीकरुण मुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषया- णां भावनातश्चित्तप्रसादनम्” सू० । “तत्र सर्व्वप्राणिषु सुखसम्भीगापन्नेषु मैत्रीं भावयेत् दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम्, अपु- ण्यशीलेषूपेक्षाम् । एवमस्य भावयतः शुक्लोधर्म्मौपजायते ततश्चित्तं प्रसीदति प्रसन्नमेकाग्रं स्थितिपदं लभते” भा० । “अपरिकर्म्मितमनसोऽसूयादिमतः समाधितदुपायसम्यत्त्य- नुत्पादात् चित्तप्रसादनोपायानसूयादिविरोधिनः प्रति- पादयितुमुपक्रमते--यस्य,--चित्तस्यावस्थितस्येदमिति । मै- त्रीकरुणेत्यादि प्रसादनान्तम् । सुखितेषु मेत्रीं सौहार्द्दं भावयत ईर्षाकालुष्यं निवर्त्तते चित्तस्य । दुःखि- तेषु च करुणामात्मनीव परस्मिन् दुःखप्रहाणेच्छां भा- वयतः परापकारचिकीर्षाकालुष्यं चेतसोनिवर्त्तते । पुण्यशीलेषु प्राणिषु मुदितां हर्षं भावयतः असूयाकालुष्यं चे तसो निवर्त्तते । अपुण्यशीलेषु चोपेक्षां माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसोनिवर्त्तते । ततश्चास्य रा- जसतामसधर्म्मनिवृत्तौ सात्विकः शुक्लोवर्म्म उपजायते । सत्वोत्कर्षसम्पन्नः सम्भवति । वृत्तिनिरोधपक्षे तस्य प्र- सादस्वाभाव्याच्चित्तं प्रसीदति प्रसन्नञ्च वक्ष्यामाणेभ्य उपायेभ्यः एकाग्रं स्थितिपदं कमते । असत्यां पुनर्मेत्र्या- [] दिभावनायां न ते उपायाः स्थित्यै कल्पन्ते--तानिदानीं स्थित्युपायानाह” वाचस्पतिविवरणम् । “प्रच्छर्द्दनविधारणाभ्यां वा प्राणस्य” सू० । “कोष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषात् वमनं प्रच्छर्द्दनं, विधारणं प्राणायामः ताभ्यां वा मनसः स्थितिं संप्रसादयेत्” भा० “वाशब्दो वक्ष्यमाणोपायान्तरापेक्षी विकल्पार्थो न, मैत्र्या दिभावनापेक्षया तया सह समुच्चयात् । प्रच्छर्द्दनं वि- वृणोति--कोष्ठ्यस्येति । प्रयत्नविशेषात् योगशास्त्रविहि- तात् येन कोष्ठ्योवायुर्नासिकापुटाभ्यां शनैरेच्यते । वि- धारणं विवृणोति विधारणं प्राणायामः रेचितस्य कोष्ठ्यस्य वायोर्यदायामो बहिरेव स्थापनं न तु सहसा- प्रवेशनं तदेताभ्यां प्रच्छर्द्दनविधारणाभ्यां वायोर्लधूकृत- शरीरस्य मनः स्थितिपदं लभते । अत्र चोत्तरसूत्रगतात् स्थितिनिवन्धनीतिपदात् स्थितिग्रहणमाकृष्य सम्प्रसादयेदि- त्यर्थप्राप्तेन सम्बन्धनीयः” विव० । “स्थित्युपायान्तरमाह” भा० “विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनि वन्धनी” सू० “नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्ध- प्रवृत्तिः, जिह्वाग्रे रसंवित्, तालुनि रूपसंवित्, जिह्वा- मध्ये स्पर्शसंवित्, जिह्वामूले शब्दसंवित्, इत्येताः प्रवृ- त्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति संशयं विधमन्ति समाधिप्रज्ञायाञ्च द्वारीभवन्तीति” भा० । “व्याचष्टे--नासिकाग्रे धारयत इति । धारण
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
एकाग्रः, त्रि, (एकं एकस्मिन् वा अग्रं पुरोगतं ज्ञेय- मस्य ।) अनन्यचित्तः । तत्पर्य्यायः । एकतानः २ [] अनन्यवृत्तिः ३ एकायनः ४ एकसर्गः ५ एकाग्य्रः ६ एकायनगतः ७ । इत्यमरः ॥ (यथा, मनुः । १ । १ । “मनुमेकाग्रमासीनमभिगम्य महर्षयः” । “एकाग्रं विषयान्तराव्याक्षिप्तचित्तम्” । इति कुल्लुकभट्टः । तथा भागवते ८ । १६ । ३ । “मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि । वासुदेवे समाधाय चचार ह परव्रतम्” ॥ तथा गीतायाम् ६ । १२ । “तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासाने युञ्ज्याद्योगमात्मविशुद्धये” ॥ “एकाग्रं विक्षेपरहितं मनः कृत्वा” । इति स्वामि- टीका ।) अनाकुलः । इति मेदिनी ॥
📄 मूल मुद्रित पृष्ठ (1-294-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "एकाग्र" आता है (6)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें