कञ्चुकी, [न्] पुं, (कञ्चुकोऽस्यास्तीति । कञ्चुक + अस्त्यर्थे इनिः ।) महल्लरक्षकः । अन्तःपुराध्यक्षः । स तु वहिःसञ्चरन्तीनां पुरस्त्रीणां प्रेक्षकपुरुषान्तर- वारणाय राज्ञा स्त्र्यागारे यो वेत्रधरो नियुक्तः । तत्पर्य्यायः । सौविदल्लः २ स्थापत्यः ३ सौविदः ४ । इत्यमरः ॥ २ । ८ । ८ ॥ (यथा रत्नावलीनाटिकायां २ अङ्के । “नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः” ॥ अस्य लक्षणमुक्तं भरतेन । “अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः । सर्व्वकार्य्यार्थकुशलः कञ्चुकीत्यभिधोयते” ॥) यवः । चणकः । सर्पः । इति राजनिर्घण्टः ॥ षिङ्गः । जोङ्गकद्रुमः । इति मेदिनी ॥
कञ्चुकी, स्त्री, (कञ्चयति शरीरकान्त्यादिकं प्रका- शयति रोगादिकमुपशमयति वा । कञ्च णिच् बाहुलकादुकन् गौरादित्वात् ङीष् जातिवाच- कत्वात् ङीप् वा ।) औषधिभेदः । इति मेदिनी ॥ क्षीरीशवृक्षः । इति रत्नमाला ॥
📄 मूल मुद्रित पृष्ठ (2-008-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।