कण्डू गात्रविघर्षणे गृहीतकर्मकत्वेन अक० घर्षणमात्रे प्राण्यङ्गघर्षणमत्रोपाधिः सक० उभ० सेट् स्वार्थे यक् । कण्डूयति ते अकण्डूयीत् अकण्डूयिष्ट कण्डूयाम्--बभूव--आस चकार चक्रे । कण्डूयनं क- ण्डूयितः कण्डूः कण्डूया कण्डूयन् कण्डूयमानः “क- ण्डूयमानेन कटं कदाचित्” रघुः “मृगीमकण्डूयत कृष्णसारः” कुमारः । “न संहताम्यां पाणिभ्याम् कण्डूयेदात्यनः शिरः” मनुः “शृङ्गे कृष्णमृगस्य वाम- नयनं कण्डूयमानां मृगीम्” शकु० । कण्ड्वादिश्च धातुः प्रातिपदिकश्च “धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । आह घायमिमं दीर्घमन्यैतुर्विभाषितः” इत्युक्तेः । यकः कित्त्वकरणसामर्थ्यात् घातुत्वं प्रातिपदिकत्वे तत्करणं व्यर्थं स्यात् प्रातिपदिकस्य गुणाप्रसक्तेः दीर्घकरणाच्च प्रातिपदिकत्वम् आर्द्धधातुकयकारे धातोः दीर्घसम्भवेन दीर्घपाठो वृथा स्यात् अत उभयरूपत्वम् ।
कण्डू स्त्री कण्डूय--क्विप् अलोपयलोपौ सम्पदा० क्विप् । १ कण्डूयने गात्रघर्षणे (चुलकान) २ तत्साधनरोगे (चुल्कुनी) “कपोलकण्डूं करिभिर्विनेतुम्” कुमा० । “सकण्डूः पिडका श्यावा बहुस्वावा विचर्चिका” मावप्र० ।
📄 मूल मुद्रित पृष्ठ (1632,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।