कदली, स्त्री, (कदल + गौरादित्वात् ङीष् । यद्वा काय जलाय दल्यते त्वगस्य गौरादित्वात् ङीष् ।) स्वनामप्रसिद्धौषधिविशेषः । कला इति भाषा । तत्पर्य्यायः । वारणवुसा २ रम्भा ३ मोचा ४ अंशुमत्फला ५ काष्ठीला ६ । इत्यमरः ॥ कदलः ७ वारणवुषा ८ वारवुषा ९ । इति तट्टीका ॥ सुफला १० सुकुमारा ११ सकृत्फला १२ गुच्छ- फला १३ हस्तिविषाणी १४ गुच्छदन्तिका १५ निःसारा १६ राजेष्टा १७ बालकप्रिया १८ ऊरु- स्तम्भा १९ भानुफला २० वनलक्ष्मीः २१ । कदलकः २२ मोचकः २३ रोचकः २४ लोचकः २५ वारवृषा २६ । इति शब्दरत्नावली ॥ वारणवल्लभा २७ चर्म्मण्वती २८ । इति जटाधरः ॥ (यथा, महा- भारते २ । दूतपर्ब्बणि ६६ । १२ । “कदलीशुण्डसदृशं सर्व्वलक्षणसंयुतम् । गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्” ॥) अस्याः पक्वफलगुणः । कषायत्वम् । मधुरत्वम् । शीतलत्वम् । पित्तास्रविमर्द्दनत्वम् । गुरुतरत्वम् । मन्दानले अपथ्यत्वम् । सद्यः शुक्रविबर्द्धनत्वम् । क्लमतृष्णाहरत्वम् । कान्तिदातृत्वम् । दीप्ताग्नौ सुखदत्वम् । कफामयकरत्वम् । सन्तर्पणत्वम् । दुर्ज्जरत्वञ्च ॥ * ॥ (यथा हारीते । “हृद्यं मनोज्ञं कफवृद्धिकारि शीतञ्च सन्तर्पणमेव बल्यम् । रक्तं सपित्तं श्वसनञ्चदाहं रम्भाफलञ्चापि नरस्य हन्ति ॥ अपक्वकं ग्राहि च शीतलञ्च कषायकं वातकफं करोति । विष्टम्भि बल्यं गुरु दुर्ज्जरञ्च आरण्यरम्भाफलमेव तद्वत्” ॥) मोचकगुणाः । हृद्यत्वम् । कफकृमिनाशित्वम् । कुष्ठप्लीहज्वरहरत्वम् । अग्निदीपनत्वम् । वस्ति- शोधनत्वञ्च ॥ * ॥ (“मोचाफलं स्वादु शीतं विष्टम्भि कफनुद्गुरु । स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित् ॥ पक्वं स्वादु हिमं पाके स्वादु वृश्यञ्च वृंहणम् । क्षुत्तृष्णानेत्रगदहृन्मेहघ्नं रुचिमांसकृत्” ॥ इति भावप्रकाशः ॥ कदली पुष्पगुणांश्चाह ॥ “कदल्याः कुसुमं स्निग्धं मधुरन्तुवरं गुरु । [] वातपित्तहरं शीतं रक्तपित्तक्षयप्रनुत्” ॥) अस्या मूलगुणाः । बलकारित्वम् । वातपित्त- नाशित्वम् । गुरुत्वञ्च ॥ * ॥ “माणिक्यमर्त्त्यामृतचम्पकाद्या भेदाः कदल्या बहवोऽपि सन्ति । उक्ता गुणास्तेष्वधिका भवन्ति निर्द्दोषता स्याल्लघुता च तेषाम्” ॥ इति राजनिर्घण्टः ॥ * ॥ चम्पकाख्यकदली- फलगुणाः । वातपित्तहरत्वम् । गुरुत्वम् । शुक्र- वृद्धिकारित्वम् । अतिशीतलत्वम् । रसे पाके मधुरत्वञ्च । दुग्धदधितक्रतालयुक्तं कदलं दुर्ज्जरम् । इति राजवल्लभः ॥ * ॥ हरिणविशेषः । पताका । इति मेदिनी ॥ करिवैजयन्ती । इति हंलायुधः ॥ हातिर उपरेर निशान इति भाषा ॥
📄 मूल मुद्रित पृष्ठ (2-018-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।