कपित्थ पु० कपिस्तिष्ठत्तत्र तत्फलप्रियत्वात् स्था--क पृषो० । (कएतवेल) वृक्षभेदे “त्रिरात्रान्ते त्रिरात्रान्ते कपित्यव- दराशनः” भाग० ४, ८, ६० । अस्य गुणपर्य्यायादि भावप्र० उक्तं यथा । “कपित्थस्त दाथत्थः त्याततथा पुष्पफलः स्मृतः । कपिप्रियोद्रधिफलस्तथा द्रन्तशठोऽपि च । कपित्थमामं [] सङ्ग्राहि कषायं लघु लेखनम् । पक्वं गुरु तृषाहिक्का- शमनं वातपित्तजित् । स्यादल्पन्तुवरङ्कण्ठशोधनं ग्राहि दुर्जरम्” । अपिच “कपित्यमामं कण्डूघ्नं विशदं ग्राहि वातलम् । मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्” सुश्रुते अम्लवर्गेऽयं पठितः अम्लशब्दे तद्वाक्यं दर्शितम् । हारीतेनास्य भक्षणं सर्वदा निषिद्धं यथा “न वटप्ल- क्षोदुम्बरनीपदधित्थमातुलाङ्गानि भक्षयेत् । कपित्थो- स्त्यत्र देशे पुष्करा० इनि कपित्थिनी स्त्री कपित्थयुक्तदेशे । तस्य सन्निकृष्टदेशादि काशा० इनि । कपित्थिन् तत्स- न्निकृष्टदेशादौ त्रि० ।
📄 मूल मुद्रित पृष्ठ (1660-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।