कश शब्दे अक० वोप० गतौ शासने च सक० पा० भ्वा० पर० सेट् । कशति अकशीत्--अकाशीत् चकाश । प्रनि- कशति । “अन्थोऽनश्नन्नभिचाकशीति” श्रुतिः । यङ्- लुकि लटोरूपम् । उभयपदीत्येके ।
कश पु० कशति शब्दायते शास्ति ताडयति वा करणस्य कृर्तृविवक्षया कर्त्तरि कश--अच् । अश्वादेस्ताड- नसाधने चर्म्मवस्त्रादिनिर्मिते पदार्थभेदे (चावुक) “स राजा तं कशेनाताडयत्” मा० व० १९६ अ० । अमरे अस्य स्त्रीत्वमाह । “जघान कशया मोहात्तदा राक्षस- वन्मुनिम्” भा० आ० १७७ अ० । “सम्यक्कशात्रय- विचारवता नियुक्तः” माघः ५, १० श्लो० व्या० मल्लि० । “अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषु यथासङ्ख्यं मृदुसमनिष्ठुरद्वित्रिरूपं त्रितयन्तस्य विचारः “एतेषु निमित्तेषु अङ्गेष्वेवन्ताड्यः” इति विमर्षः तद्वता तज्ज्ञेन । यथाह भोजः “मृदुनैकेन घातेन दण्ड- कालेषु ताडयेत् । तीक्ष्णं मध्यं पुनर्द्वाभ्याञ्जघन्यन्नि- ष्ठुरैस्त्रिभिः । उपवेशेऽथ निद्रायां स्खलिते दुष्ट- चेष्टिते । बडवालोकनौत्सुक्ये बहुगर्व्वितह्रेषिते । सन्त्रासे च दुरुत्थाने विमार्गगमने भये । शिक्षात्यागस्य समये सञ्जाते चित्तविभ्रमे । दण्डः प्रयोज्यो वाहानां कालेषु द्वादशस्वपि । ग्रीवायाम्भीतमाहन्यात् त्रस्तञ्चैव च वाजिनम् । विभ्रान्तचित्तमधरे त्यक्तशिक्षञ्च ताडयेत् । प्रह्रेषितं स्कन्धवाह्वोर्बाडवालोकिनं तथा । उपवेशे च निद्रायां कटिदेशे च ताडयेत् । दुश्चेष्टितं मुखे हन्या- दुन्मार्गप्रस्थितं तथा । जघने स्खलितं हन्यान्नेत्रमार्गे [] दुरुत्थितम् । यः कुण्ठप्रकृतिर्वाजी तं सर्वत्रैव ताडयेत्” इति । अधिकमश्वशब्दे उक्तम् । मांसरोहिण्यां स्त्री भावप्र०
📄 मूल मुद्रित पृष्ठ (1834,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।