कष बधे भ्वा० पर० सक० सेट् बधोऽत्र निष्पीडनं घर्षणञ्च । कषति अकषीत्--अकाषीत् । ककाष प्रनिक- षति । “छदहेम कषन्निवालसत् कषपाषाणनिभे नभस्तले” नैष० । अस्य परस्मैपदिषु पा० ग० पाठात् शब्दकल्पद्रुमे च तथा पाठात् आ० उक्तिर्भ्रान्तिमूला । “पामानं कषमाणम्” इत्यादिप्रयोगस्तु ताच्छीलिकचानशैवोपपत्तेः । “निमूलसमूलयोः कषः” “कषादिषु यथाविध्यनुप्र- योगः” पा० णमुल् अनुप्रयोगश्च । निमूलकाषं कषति समूलकाषं कषति समूलं निमूलं वा कषतीत्यर्थः सि० कौ० “समूलकाषं चकषूरुदन्तः” भट्टिः । “सर्वकूलाभ्रकरीषेषु कषः” पा० कर्मरूपेष्वेषूपपदेषु खच् । सर्वङ्कषः कूलङ्कषः अभ्रङ्कषः करीषङ्कषः”
कष पु० कष--अच् । स्वर्ण्णषर्णरूपज्ञानार्थे (कषटी) पाषाणभेदे [] इतरप्रस्तरस्य स्वर्ण्णेन घर्षणात्तस्यैव तथात्वम् । अस्त्रादेस्तीक्ष्णी करणसाधने शाणाख्ये पदार्थे अमरः । “कषपापाणनिभे नभस्तले” नैष० “सुवर्ण्णरेखेव कषे निवेशिता” मृच्छ० ।
📄 मूल मुद्रित पृष्ठ (1838,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।