🕉️ 19 November 2026, Thursday · 04:22:08 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कांत
kāṃta
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कांत २ वि॰
१. इच्छित ।
२. प्रिय ।
३. सुंदर । मनोरम [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. कान्त mf(आ)n. (fr. √ 2. कम्), desired, loved, dear, pleasing, agreeable, lovely, beautiful
कान्त m. any one beloved, a lover, husband
the moon, L.
the spring, L.
the plant Barringtonia Acutangula, L.
iron, L.
a stone (cf. सूर्य-क्˚, &c.), L.
N. of Kṛṣṇa, L.
of Skanda, MBh. iii, 14631
of a son of Dharma-netra, Hariv. i, 33, 3
कान्त n. saffron, L.
a kind of iron, L.
a magnet, Buddh.
a kind of house, L.
📄 मूल मुद्रित पृष्ठ (270,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कांत p. p. [कम्-क्त] 1 Desired, favourite, loved, dear; कांतं क्रतुं चाक्षुषं M. 1. 4. --2 Pleasing, agreeable; भीमकांतैर्नृपगुणैः R. 1. 16. --3 Lovely, beautiful; सर्वः कांतमात्मीयं पश्यति Ś. 2. --तः 1 A lover. --2 A husband; कांतोदंतः सुहृदुपगतः संगमात् किंचिदूनः Me. 100; Śi. 10. 3, 29. --3 Any beloved person. --4 The moon. --5 The spring. --6 A kind of iron. --7 A precious stone (in comp. with सूर्य, चंद्र and अयस्). --8 An epithet of (1) Kārtikeya, (2) Kṛṣṇa. --तं 1 Saffron. --2 A kind of iron. --Comp. --अयसं the loadstone. --पक्षिन् m. a peacock (of iron). --लोहं the loadstone. --लौहं steel.
📄 मूल मुद्रित पृष्ठ (0393-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कान्त पु० कन दीप्तौ कम--वा क्त । १, पत्यौ “कान्तवक्ष- स्थलस्थिता” उद्भटः । “शिवरात्रौ ददाम्यर्घमुमाकान्त! गृहाण मे” शिवार्घदानमन्त्रः । सूय्य पूर्व्वकः सूर्य्यका- न्तशिलायाम्, चन्द्रपूर्व्वकः चन्द्रकान्तमणौ, अय० पूर्वः अयस्कान्तमणौ (चुम्बकपाथर) २ चन्द्रे ३ वसन्ते ४ हिज्जल- वृक्षे च । ५ कुङ्कुमे, न० ६ शोभने, “कान्तालकान्ताललनाः सुराणाम्” माघः “नात्र कान्तमुपगीतया तया” माघः । ७ अभीष्टे च त्रि० । “भीमकान्तैर्नृपगुणैः” रघुः । ८ नार्य्यां, ९ प्रियङ्गुवृक्षे च स्त्री । मेदि० १० वृहदे- लायां १ १ रेणुको षधौ १२ नागरमुस्तायां स्त्री राज- नि० । १३ सुखस्यान्ते १४ लोहभेदे न० भावप्र० तस्य लक्षणगुणादि तत्रोक्तं यथा “यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते, हिङ्गुर्गन्धां स्त्यजति च निजं तिक्ततां निम्बवल्कः । तप्तं दुग्धं भवति शिखराकारकं, नैति भूमिं, कृष्णं न स्यात् सजलकणतः कान्तलोहं तदुक्तम्” । मारितस्य चूर्णीकृतस्य तस्य सेवने गुणा उक्तास्तत्रैव “गुल्मोदरार्शःशूलाममामवातं भगन्द- रम् । कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत् । प्लीहान- मम्लपित्तञ्च यकृच्चापि शिरोरुजम् । सर्वान्रोगान् विजयते कान्तलोहं न संशयः । बलं वीर्य्यं वपुः पुष्टिं कुरुतेऽग्निं विवर्धयेत्” । तत्रैव सामान्यलौहमारणविधिगुणादि । “शुद्धं लोहभवं चूर्णं पातालगरुडीरसैः । मर्द्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् । पुटत्रयं कुमार्याश्च कुठार- च्छिन्निकारसैः । पुटषट्कं ततोदद्यादेवं तीक्ष्णमृतिर्भवेत्” । अन्यच्च । “क्षिपेद्द्वादशमांशेन दरदं तीक्ष्णचूर्णतः । मर्द्दयेत्कन्यकाद्रावैर्यामयुग्मं ततः पुटेत् । एवं सप्तपुटै र्मृत्युं लोहचूर्णमवाप्नुयात् । सत्यानुभूतो योगीन्द्रैः क्रमोऽन्योलोहमारणे । कथ्यते रसराजेन कौतूहलधि- याऽघुना । सूतकात् द्विगुणं गन्धं दत्त्वा कुर्य्याच्च कज्जलीम् । द्वयोः समं लोहचूर्णं मर्द्दयेत्कन्यकाद्रवैः । यामत्रयं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । वर्म्मे धृत्वा रुचूकस्य पत्रैराच्छादयेद्बुधः । यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसे- त्ततः । दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् । पिष्ट्वा [] च गालयेद्वस्रादेवं वारितरं भवेत् । दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा । तद्रसेनायसञ्चूर्णं सन्नीय प्लावयेदिति । आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः । एकविंशतिवारै- स्तन्म्रियते नात्र संशयः । एवं सर्वाणि लोहानि स्वर्णा- दीन्यपि मारयेत्” । एवं मारितस्य लौहस्य गुणाः । “लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु । रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् । कफं पित्तज्वरं शूलं शोफार्शःप्ली- हपाण्डुताः । मेदोमेहक्रिमीन् कुष्ठं तत्किट्टंतद्वदेव हि । गुञ्जामेकां समारभ्य यावत् स्युर्नवरत्तिकाः । तावल्लौहं समश्नीयाद्यथादोषानलं नरः । कुष्माण्डं तिलतैलं च माषान्नं राजिकां तथा । मद्यमम्लरसञ्चैव वर्जयेल्लोह सेवकः । शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः । म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा” । “कामे कान्ते रसिका काकुरुतेन” माघः । “कान्ताजनेन रहसि गृहीता ।” “वपुष्यशेषेऽखिललोककान्ता सानन्य- कान्ताह्युरसीतरा तु” । माघः कं ब्रह्माणमन्तयति द्विप- रार्द्धकाले । १५ वासुदेवे परमेश्वरे पु० “कामदेवः काम- पालः कामी कान्तः कृतागमः” विष्णुस० । १६ पत्न्यां स्त्री “मा कान्ते पक्षस्यान्ते पर्य्याकाशे देशे स्वाप्सीः” ज्यो० त० “कान्तया कान्तसंयोगे किमकारि नवोढया” विदग्धमु० । १७ कार्त्तिकेये पु० । “आग्नेयश्चैव स्कन्दश्च” इत्युपक्रमे “कामजित् कामदः कान्तः” इत्युक्त्वा । “नामान्येतानि दिव्यानि कार्त्तिकेयस्य य
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कान्तं, क्ली, (कनते दीप्यते इति । कन + कर्त्तरि क्तः ।) कुङ्कुमम् । इति राजनिर्घण्टः ॥ लौहविशेषः । तस्य लक्षणं यथा, -- “स्वादुर्यत्र भवेन्निम्बकल्को रात्रिन्दिवोषितः । कान्तं तदुत्तमं यच्च रूप्येणावर्त्तितं मिलेत्” ॥ तस्य परीक्षा । यथा । पात्रे यस्मिन् विसरति जले तैलविन्दुर्निषिक्तो विद्धं गन्धं विसृजति निजं रूपितं निम्बकल्कैः । [] पाके दुग्धं भजति शिखराकारतां नैति भूमौ कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत्” ॥ इति सुखबोधः ॥ अपि च । “यत्पात्रे न प्रसरति जले तैलविन्दुर्निषिक्तो हिङ्गुर्गन्धं त्यजति भजते स्वादुतां निम्बकल्कः । पाच्यं दुग्धं भवति सिकतापुञ्जवन्नैति भूमौ कृष्णाङ्गः स्यात् सजलचणकः कान्तलौहंवदन्ति” ॥ इतिवैद्यकम् ॥ (वैद्यकरसेन्द्रसारसंग्रहे वृहत्सर्व्व ज्वरहरलौहेऽस्य व्यवहारो यथा, -- “पारदं गन्धकं शुद्धं ताम्रमभ्रञ्च माक्षिकम् । हिरण्यं तारतालञ्च कर्षमेकं पृथक् पृथक् ॥ मृतं कान्तं पलं देयं सर्व्वमेकीकृतं शुभम्” ॥)
कान्तः, त्रि, (काम्यते इति । कम् + कर्म्मणि क्तः “यस्य विभाषा” । ७ । २ । १५ । इति नेट् । अनुनासि- कस्येति दीर्घः ।) मनोरमः । शोभनः । इत्यमरमे- दिनीकरौ ॥ (यथा, “मलिनमपि मृगाक्ष्या बल्कलं कान्तरूपं न मनसि रुचिभङ्गं स्वल्पमप्यादधाति” । इति शाकुन्तले १ अङ्के ॥)
कान्तः, पुं, (कम् + क्त ।) श्रीकृष्णः । चन्द्रः । इति शब्दरत्नावली ॥ पतिः । (यथा मेघदूते । १०१ । ‘कान्तोदन्तः सुहृदुपनतः सङ्गमात् किञ्चिदूनः’ ॥) चन्द्रसूर्य्यायःपर्य्यायान्तःशिला । यथा । चन्द्रकान्त- सूर्य्यकान्तायस्कान्तादयः । इति मेदिनी ॥ हिज्जल- वृक्षः । वसन्त ऋतुः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते १३ । १४९ । ४५ । “कामहा कामकृत् कान्तः कामः कामप्रदःप्रभुः” ॥ शिवः । यथा, तत्रैव १३ । १७ । १४८ । “गुहः कान्तो निजः सर्पः पवित्रं सर्व्वपावनः” ॥ कार्त्तिकेयः । यथा, तत्रैव २ । २३१ । ४ । “कामजित् कामदः कान्तः सत्यवाग्भुवनेश्वरः” ॥)
📄 मूल मुद्रित पृष्ठ (2-084-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "कांत" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें