कुच, ज रोधपर्ककौटिल्यलेखने । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-सक, अकं च-सेट्-ज्वलां ।) ज कोचः कुचः । रोधः क्रियारोधः जडीभाव इत्यर्थः । अस्मिन्नर्थ एव प्रायो वर्त्तते । यस्मिन् प्रमुदिते राज्ञि तमः सङ्कोचति क्षितौ । पर्कः सम्पर्कः । इति दुर्गादासः ॥
कुच, शि सङ्कोचे । इति कविकल्पद्रुमः ॥ (तुदां- पर-अकं, सेट् ।) प्रायः संपूर्व्वस्य प्रयोगः । शि- संकुचति अकुचीत् चुकोच । इति दुर्गादासः ॥
कुच, तारशब्दे । उच्चैःशब्द इति यावत् । इति कवि- कल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) कोचति ढक्वा । भट्टमल्लस्तु तारे शब्दे च कोचति इति नानार्थे पठति । तन्मते तारश्चिक्कणता । कोचति काञ्चीं वणिक् चिक्कणयतीत्यर्थः । इति दुर्गादासः ॥
कुचः, पुं, (कुचति संकुचतीति । कुच् संकोचे । “इगुपधेति” । ३ । १ । १३५ । कः ।) स्तनः । इत्यमरः । २ । ६ । ७७ । (यथा गोः रामायणे । ५ । १३ । ५७ । [] “अन्या वक्षसि चान्यस्यास्तस्याश्चाप्यपराः कुचे । उरूपार्श्वकटीपृष्ठमन्योन्यं समुपाश्रिताः” ॥ स्त्रीणां यौवने कुचपरिवृद्धिर्भवति । यथाह भावप्रकाशे । “पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते । तेषां तदपि तारुण्ये पुष्टत्वात् व्यक्तिमेति हि ॥ कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा । रोमराज्यादयः पुंसां नारीणामपि यौवने ॥ जायते ऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च” ॥ व्याख्यानं यथा, -- “पुंसां रोमराजिश्मश्रुप्रभृतयः नारीणान्तु रोमराजी स्त नार्त्तवादयः” ॥)
📄 मूल मुद्रित पृष्ठ (2-134-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।