कैलास पु० के जले लासो लसनं दीप्तिरस्य अलुक्स० केलस स्फटिकस्तस्येव शुभ्रः अण्, केलीनां समूहः अण्-- कैलं तेनास्यतेऽत्र आस--आधारे घञ् वा । शिवकवेरयोः स्थाने पर्व्वतभेदे । स च वृह० सं० कूर्म्मविभागे उत्त- रस्यामुक्तः “उत्तरतः कैलासोहिमवान् गिरिर्धनुष्मां- श्च” । स च अलकासमीपस्थितः “अलकां समया चैष कैलासः शङ्करालयः” काशी० १३ अ० । तत्स्वरूपञ्च हरिव० २१७ अ० वर्ण्णितं यथा “मन्दरश्चोग्रशिखरः, स्फाटिकैर्म्मणिभिश्चितः । वज्रगर्मै- र्निरालम्बै स्वर्गोपम इवाबभौ । सह शृङ्गैश्च कैलासः शिलाधातुविभूषितः । तोरणैश्चैव निविडैः प्राशुभि- श्चैव पादपैः । प्रवादयद्भिर्गन्धर्व्वैः किन्नरैश्च प्रगायि- भिः । देवकन्याङ्गहावैश्च प्रकीडित इवाबभौ । मधुरै- र्व्वाद्यगीतैश्च नृत्यैश्चाभिनयोद्गतैः । शृङ्गारैः सुप्र- हावैश्च कैलासो मदनायत” । तस्य विष्णुनाभिपद्मस्य गर्भाङ्वुररूपत्वं हरिवं० २०२ अ० वर्ण्णित यथा “तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते । सर्व्वतेजो- गुणमये पार्थिवैर्लक्षणैर्युते । तच्च पद्मं पुराणज्ञाः पृथि- वीरुहमुत्तमम् । नारायणात् समुत्पन्नं प्रवदन्ति महर्ष- यः । या तु पद्मासना देवी तां पृथ्वीं परिचक्षते । ये तु गर्भाङ्कुराः सारास्तान् दिव्यान् पर्व्वतान् विदुः । हिम- वन्तञ्च मेरुञ्च नीलं निषधमेव च । कैलासं क्रौञ्चवन्तञ्च तथाऽद्रिं गन्धमादनम् । पुण्यं त्रिशिखरं चैव कान्त मन्दरमेव च । उदयञ्च गिरिश्रेष्ठं विन्ध्यमस्तञ्च पर्व्वतम् । एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम् । आश्रयाः सर्वभूतानां पुण्याः कामयुजोऽद्रयः । एतेषामन्तरो देशो जम्बुद्वीप इति स्मृतः” । कैलासप्रमाणञ्च भाग० ५, १६, २३, उक्तं यथा “जठ- रदेयकूटौ मेरुं पूर्व्वेण द्वादशयोजनसहस्रमुदगायतौ द्विसहस्रपृथुतुङ्गौ मवतः एवमपरेण पवनपारिपात्रौ” दक्षिणेन कैलासकरवीरौ प्रागायतौ” । “शुभ्रं पाण्डरमेघाभं कैलासञ्च नगोत्तमम्” हरि० २२६ अ० । “कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः” मेध०
📄 मूल मुद्रित पृष्ठ (2255,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।