क्षिप प्रोरणे तुवा० उभ० सा० अनिट । क्षिपति--ते अक्षै- [] पसीत् अक्षिप्त । चिक्षेप चिक्षिपे । क्षिप्तः क्षेपकः । क्षेप्ता क्षिप्त्वा क्षिपः क्षिपन् । “क्षिपत्येकेन वेगेन पञ्च- वाणशतानि च” भा० व० १०१८ श्लो० । “सुशर्म्मा साय- कांस्तीक्ष्णान् क्षिपते च पुनः पुनः” भा० वि० ३३ अ० । “पदाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजन” रामा० १ । ११ अ० “यणिन् क्षप्स्यसि शक्तिञ्च स एकोन भविष्यति” भा० आ० ६७ अ० “स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि” भा० व० २८१ अ० “चिक्षेप मारीचोरसि” रासा० वा० ३२ स० । आक्षेपे च “चिक्षेप च स तं धीमान् वाग्भिरुग्रामिरच्युतम्” भा० आश्व० ३५ अ० । प्रेरणे क्वचित् स्वार्थे च णिच् क्षेपयति ते अचिक्षिपत् त अति + अत्यन्तक्षेपे । “सन्धिमुक्तमुत्पिष्टं श्लिष्टं विवर्त्तित मवक्षिप्तमतिक्षिप्तं तिर्य्यक् क्षिप्तमिति षड्विधम्” “अति- क्षिप्ते द्वयोःसन्ध्योरतिक्रान्तता वेदना” सुश्रुतः । अधि--तिरस्कारे “तस्मादेतैरधिक्षिप्तः संहेतासंज्वरः सदा” मनुः । “त्वं नाधिक्षेप्तु मर्हसि” भा० व० ९९ अ० । अधिक्षेपशब्दे विवृतिः । अव + अधःक्षेपणे “अवक्षिप दिवो अश्मानमुच्चाः” ऋ० २, ५३, ५ अवक्षेपणशब्दे विवृतिः आ + आकर्षणे “आक्षिप्य केशान् वेगेन वाह्वोर्जग्राह पाण्ड- वम्” भा० वि० ७५० श्लो० । भत्र्सने । आक्षेपशब्दे ६०३ पृ० विवृतिः । “आक्षिपन्तं प्रभां भानोः” भा० आ० ११०३ । “आक्षिप्तत्तोमिव प्रभां शशिनः स्वेन तेजसा” भा० व० २१४७ श्लो० । परि + आ + आकृष्य तन्धने । “पर्य्याक्षिपत् काचिदुदारबन्धम्” कुमा० । उद् + ऊर्द्वक्षेपणे । “वलिमाकाश उत्क्षिपेत्” मनुः “शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्” भा० आ० ११२६ श्लो० उत्क्षेपणशब्दे १०८६ पृ० विवृतिः नि + नितरां क्षेपणे निधाने च । “अन्नं भूमौ श्वचाण्डाल वायसेभ्यश्च निक्षेपेत्” याज्ञ० । गात्राणि कान्तासु च नि- क्षिपन्तः” रामा० ५ । ११ निक्षेपशब्दे विवृतिः निस् + निशेषेण क्षेपे । “मक्षिकाव्रणजातस्य निःक्षिपन्ति यदा कृमीन्” सुश्रुतः । परि + परितः क्षेपे । “गङ्गास्रोतःपरिक्षिप्तम्” कुमा० । प्र + प्रंकर्षेण क्षेपे “नामेध्यं प्रक्षिपेदग्नौ” मनुः प्रति + प्रतिरूपक्षेपे । “अन्तः सिराणां श्वसनः स्थितोदृष्टिं प्रतिक्षिपन्” सुश्रु० । अधिक्षपे निवारणे प्रेरणे च वि + विशेषेण क्षेपे “विक्षिप्यमाणाः धनुषा नरेन्द्राः” भा० आ० ७०२२ श्ला० । वायुकृते उणादे, विक्षिप्तचित्तः । योगा- [] न्तरायकरणे चित्तवृत्तेरन्यत्र सञ्चारे च “अस्वण्डवस्त्वनव- लम्बनेन चित्तवृत्तेरन्यालम्बनं क्षिपः” वेदान्तसा० “लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः” तत्रस्था कारिका सम् + सम्यकक्षेपे विस्तीर्ण्णस्य सङ्कोचापादने व्यापारे “आतपा- त्ययसंक्षिप्तनीवारासु निषादिभिः” रघुः । “संक्षिप्तैः प्रति- संस्कृतैः” अमरः । “संक्षिप्तसारमाचष्टे” संक्षिप्तसा०
क्षिप प्रेरणे दिवा० प० सक० अनिट् । क्षिपयति--ते अक्षे- प्सीत् । चिक्षेप । “शत्रुघ्नान् युधि हस्तिग्नोगिरीन् क्षिप्यन्नकृत्रिमान्” “वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्र- मिन्द्रजित्” भट्टिः । उपसर्गभेदेनार्थविशेषः तौदादिकवत् ।
क्षिप त्रि० क्षिप--क । १ क्षेपके । भावे भिदा० अङ् टाप् । क्षिपा । २ क्षेपणे स्त्री ।
📄 मूल मुद्रित पृष्ठ (2373-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।