चेतकी, स्त्री, (चेतयते उन्मीलयति ज्ञानेन्द्रिय- बलादीनि । चित + ण्वुल् । गौरादित्वात् ङीष् ।) हरीतकी । इत्यमरः । २ । ४ । ५९ ॥ हिमाचलभवा त्रिशिरा हरीतकी । सा च सर्व्वरोगनाशिनी गन्धयुक्तद्रव्यकरणे प्रशस्ता । इति वैद्यकम् ॥ (“चेतकी द्विविधा प्रोक्ता आकाराद्बर्णतस्तथा । षडङ्गुला हिता प्रोक्ता शुक्ला चैकाङ्गुला स्मृता ॥ श्रेष्ठा कृष्णा समाख्याता रेचनार्थे जिगीषुणा । चेतकी वृक्षशाखायां यावत्तिष्ठति तां पुनः ॥ भिन्दन्ति पशुपक्ष्याद्या नराणां कोऽत्र विस्मयः । चेतकीं यावद्बिधृत्त्य हस्ते तिष्ठति मानवः ॥ तावद्भिनत्ति रोगांस्तु प्रभावान्नात्र संशयः ॥” इति कल्पस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥ एतस्या उत्त्तिगुणजात्यादिकं यथा, भावप्रकाशे पूर्व्वखण्डे प्रथमे भागे । “पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् । ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी ॥ हरीतक्यभया पथ्या कायस्था पूतनाऽमृता । हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥ वयस्था विजया चापि जीवन्ती रोहिणीति च । विजया रोहिणी चैव पूतना चामृताऽभया ॥ जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः । अलावुवृत्ता विजया वृत्ता सा रोहिणी स्मृता ॥ पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता । [] पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ॥ त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः । विजया सर्व्वरोगेषु रोहिणी व्रणरोहिणी ॥ प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता । अक्षिरोगेऽभया शस्ता जीवन्ती सर्व्वरोगहृत् ॥ चूर्णार्थे चेतकी शस्ता यथायोगं प्रयोजयेत् । चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ॥ षडङ्गुलायता शुक्ला कृष्णात्वेकाङ्गुला स्मृता । काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् ॥ काचित् स्पर्शेन दृष्ट्यान्या चतुर्द्धा भेदयेच्छिवा । चेतकी पादपच्छायामुपसर्पन्ति ये नराः ॥ भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः । चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ॥ तावद्भिद्येत रोगैस्तु प्रभावान्नात्र संशयः । न धार्य्यं सुकुमाराणां कृशानां भेषजद्विषाम् ॥ चेतकी परमा शस्ता हिता सुखविरेचनी ॥”) जातीपुष्पम् । इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-459-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।