पूतना, स्त्री, (पूतं करोतीति । तत्करोतीति णिच् । ततो बहुलमन्यत्रापीति युच् ।) हरीतकी । इत्यमरः । २ । ४ । ४९ ॥ सिन्धुदेशजा स्वल्पत्वक् बृह- दस्थिहरीतकी लेपने प्रशस्ता । इति राजवल्लभः ॥ (उत्पत्तिस्थानञ्चाकृतिश्चास्या यथा, -- “पूतना मगधोद्भवा ।” “पूतना चतुरस्रका ।” “पूतना चतरङ्गुला -- ।” इति हारीते कल्पस्थान प्रथमेऽध्याये ॥) गन्धमांसी । इति राजनिर्घण्टः ॥ दानवीभेदः । सा वकासुरभगिनी जिघांसया स्तनकाल- कूटप्रदानात् श्रीकृष्णेन हता । (एतद्वृत्तान्तस्तु हरिवंशे ६२ अध्याये द्रष्टव्यः ॥) रोगभेदः । इति मेदिनी । ने, ९३ ॥ स च अहिपूतना- नामबालरोगः । तस्य निदानं यथा, -- “पद्मवर्णो महापद्मो बाले दोषत्रयोद्भवः । शङ्खाभ्यां हृदयं यो वा हृदयाद्वा गुदं व्रजेत् ॥ क्षुद्ररोगे च कथिते अजगल्ल्यहिपूतने ॥” क्षुद्ररोगोक्तं यथा, -- “शकृन्मूत्रसमायुक्तेऽशौचेऽपाने शिशोर्भवेत् । स्विन्ने वा स्नाप्यमाने वा कण्डूरक्तकफोद्भवा ॥ कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते । एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् ॥” इति माधवकरः ॥ * ॥ (लक्षणान्तरमस्या यथा, -- “स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड्भिन्नं सृजति च काकतुल्यगन्धिः । छर्द्द्यार्त्तो हृषिततनूरुहः कुमार- स्तृष्णालुर्भवति च पूतनागृहीतः ॥” इति सुश्रुतेनोत्तरतन्त्रे सप्तविंशेऽध्याय उक्तम् ॥ चिकित्सास्या यथा, -- “कपोतवङ्कारलुको वरुणः पारिभद्रकः । आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ॥ वचा वयस्था गोलोमी हरितालं मनःशिला । कुष्ठं सर्ज्जरसश्चैव तैलार्थे वर्ग इष्यते ॥ हितं घृतं तुगाक्षीर्य्यां सिद्धं मधुरकेषु च । कुष्ठतालीशखदिरं चन्दनस्यन्दने तथा ॥ देवदारु वचाहिङ्गु कुष्ठं गिरिकदम्बकः । एलाहरेणवश्चापि योज्या तद्धूपने सदा ॥ गन्धनाकुलिकुम्भीका मज्जानो वदरस्य च । कर्कटास्थि घृतञ्चैव धूपनं सर्षपैः सह ॥ काकादनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत् । मत्स्यौदनञ्च कुर्व्वीत कृशरां पललन्तथा ॥ शरावसम्पुटे कृत्वा वलिं शून्यगृहे हरेत् । उच्छिष्टेनाभिषेकेन शिरसि स्नानमिष्यते ॥ पूज्या च पूतना देवी वलिभिः सोपहारकैः । मलिनाम्बरसंवीता मलिनारूक्षमूर्द्धजा ॥ [] शून्यागाराश्रिता देवी दारकं पातु पूतना । दुर्द्द्र्शना सुदुर्गन्धा कराला मेघकालिका ॥ भिन्नागाराश्रया देवी दारकं पातु पूतना ॥” इति चोत्तरतन्त्रे द्वात्रिंशत्तमेऽध्याये सुश्रुतेनो- क्तम् ॥) बालमातृकाविशेषः । यथा, -- “तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतना नाम मातृका । तया गृहीतमात्रेण प्रथमं भवति ज्वरः ॥ गात्रमुद्वेजयति स्तन्यं न गृह्णाति दृष्टिं बध्नाति क्रन्दति ऊर्द्धं निरीक्षते । वलिन्तस्य प्रव- क्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा गन्धं ताम्बूलं रक्तपुष्पं रक्तचन्दनं रक्त- सप्तध्वजाः सप्तप्रदीपाः सप्तस्वस्तिकाः मत्स्य- मांससुराः अग्रभक्तञ्च दक्षिणस्यां दिशि मध्याह्रे चतुष्पथे वलिर्दातव्यः शिवनिर्म्माल्यगुग्गुलु- सर्षपनिम्बपत्रमेषशृङ्गैर्दिनत्रयं धूपयेत् । ओँ नारायणाय नमः हन हन मुञ्च मुञ्च हुं फट् त्रायस्व स्वाहा । चतुर्थे दिवसे ब्राह्मणं भोजयेत् ततः सम्पद्यते शुभम् ।” इति चक्रपाणिदत्तः ॥
📄 मूल मुद्रित पृष्ठ (3-215-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।