छर्द्दि स्त्री छर्दयति छर्द--हेतौ णिच--इन् । वमनरोगे तन्निरुक्तिनिदानादि च सुश्रुते उक्तं यथा । “अथातश्छर्द्दिप्रतिषेधमध्याय व्याख्यास्यामः । अति- द्रवैरतिस्निग्धैरहृद्यैर्लवणैरपि । अकाले चातिमात्रैश्च त- थाऽसात्म्यैश्च भोजनैः । श्रमात् क्षयात्ययोद्वेगादजीर्णा० त्कृमिदोषतः । नार्य्याश्चापन्नसत्वायास्तथाऽतिद्रुतमश्नतः । बीभत्सैहतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् । छादय- न्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः । निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः । दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः । ऊर्द्ध्वमागच्छति भृशं विरुद्धाहारसेविनाम् । हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः । द्वेषोऽन्न- पाने च भृशं वमीनां पूर्व्वलक्षणम् । प्रच्छर्द्दयेत् फेनिल- मल्पमल्पं शूलार्द्दितोऽभ्यर्द्दितपार्श्वपृष्ठः । श्रान्तः स- घोषं बहुशः कषायं जीर्णेऽधिवं साऽनिलजा वमिस्तु । योऽम्लं भृश वा कटुतिक्तवक्त्रे पीतं सरक्तं हरितं वमेद्वा । सदाहचोषज्वरवक्त्रशोषमूर्च्छान्विता पित्तनि- सित्तजा सा । यो हृष्टरोमा मधुर पू० तं शुक्लं हिमं सान्द्रकफानुविद्धम अभक्तरुग्गौरवसादयुक्तोवमेद्वमी सा कफकोपजा स्यात् । सर्व्वाणि रूपाणि भवन्ति यस्यां सा सर्व्वदोषप्रभवा मता तु । बीभत्सजा दौर्हृद- जाऽऽमजा च याऽसात्म्यतोवा कृमिजा च या हि । सा पञ्चमी ताश्च विभावयेत्तु दोषोच्छयणैव यथोक्तमादौ । [] आमाशयोत्क्लेशभवाश्च सर्व्वास्तस्माद्धितं लङ्गनमेव तासु । शूलहृक्कासबहुला कृमिजा च विशेषतः । कृमि- हृद्रोगतुल्येन लक्षणेन च लक्षिता । क्षीणम्योपद्रवैर्युक्तां सासृक्पूयां सतन्द्रिकाम् । छर्दिं प्रसक्तां कुशलो नार- भेत चिकित्सितुम् । वमीषु बहुदोषासु छर्दनं हित- मुच्यते । विरेचनं वा कुर्व्वीत यथादोषोच्छ्रयं भिषक् । संसर्गांश्चानुपूर्व्वेण यथास्वं भषजाय तान् । लघूनि परिशुष्काणि सात्म्यान्यन्नानि वाऽऽचरेत् । यथास्वञ्च कषायाणि ज्वरघ्नानि प्रयोजयेत्” । “कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव च । हृद्रीगस्तमकश्चैव ज्ञेयाश्छद्र्देरुपद्रवाः” इति माधवकरः । वा ङीप् । तत्रार्थे “आमाशयोत्क्लेशभवा हि सर्व्वाच्छ- र्दोमता लङ्घनमेव तस्मात्” सुत्रुतः ।
📄 मूल मुद्रित पृष्ठ (2981-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।