🕉️ 19 November 2026, Thursday · 03:16:08 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दिक्
dik
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
दिक् संज्ञा स्त्री॰ [सं॰] दिशा । ओर । तरफ । उ॰— थोक अशोक कोकनद फूले, मधु के मद भौंरे दिक् भूले ।— आराधना, पृ॰ ४० ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
दिक् in comp. for 2. दिश्, p. 480.
📄 मूल मुद्रित पृष्ठ (479,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
दिक्, [श्] स्त्री, (दिशति अवकाशं ददाति या । दिश + “ऋत्विग्दधृगिति ।” ३ । २ । ५९ । इति क्विन्-प्रत्ययेन साधुः ।) पूर्व्वपश्चिमदक्षि- णोत्तरादिरूपा । तत्पर्य्यायः । ककुप् २ काष्ठा ३ आशा ४ हरित् ५ । इत्यमरः । १ । ३ । ८ ॥ निदेशिनी ६ दिशा ७ ककुभः ८ हरितः ९ गौः १० । इति शब्दरत्नावली ॥ अपि च । आताः १ आशाः २ उपराः ३ आष्ठाः ४ काष्ठाः ५ व्योमः ६ ककुभः ७ हरितः ८ इत्यष्टौ दिङामानि । इति वेदनिघण्टौ १ अध्यायः ॥ अस्या व्युत्पत्तिर्यथा, -- “कृत्वैवमवधिं तस्मादिदं पूर्व्वञ्च पश्चिमम् । इति देशो निदिश्येत यया सा दिगिति स्मृता ॥” तस्या वायोर्गुणाः । “विश्वग्वायुरनायुष्यः प्राणिनांनैकदोषकृत् । सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः ॥” इति राजवल्लभः ॥ * ॥ सा दशधा यथा । पूर्व्वा १ आग्नेयी २ दक्षिणा ३ नैरृती ४ पश्चिमा ५ वायवी ६ उत्तरा ७ ऐशानी ८ ऊर्द्धम् ९ अधः १० ॥ * ॥ तासां उत्पत्तिर्यथा, -- महातपा उवाच । “शृणु राजन्नवहितः प्रजापाल ! कथामिमाम् । यथा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ! ॥ ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते । चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ॥ एवं चिन्तयतस्तस्य अवकाशं व्रजत्विह । प्रादुर्ब्बभूषुः श्रोत्रेभ्यो दश कन्या महाप्रभाः ॥ पूर्व्वा च दक्षिणा चैव प्रतीची चोत्तरा तथा । ऊर्द्ध्वाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप ! ॥ तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः । याःपश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः ॥ [] ता ऊचुः प्रणयाद्देवं प्रजापतिमकल्मषम् । अवकाशन्तु नो देहि देवदेव प्रजापते ! ॥ यत्र तिष्ठामहे सर्व्वा भर्त्तृभिः सहिताः सुखम् । पतयश्च महाभाग ! देहि नोऽव्यक्तसम्भव ! ॥ ब्रह्मोवाच । ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् । तस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ ॥ भर्त्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः । यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ॥ एवमुक्ताश्च ताः सर्व्वा यथेष्टं प्रययुस्तदा । ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महा- बलान् ॥ दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् । विवाहं कारयामास ब्रह्मा लोकपितामहः ॥ एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च । निरृ ताय च देवाय वरुणाय महात्मने ॥ वायवे धनदेशाय ईशानाय च सुव्रत ! । ऊर्द्धं स्वयमधिष्ठाय शेषायाधोव्यवस्थिताम् ॥ एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादात् दिशां पुनः । दशमीं भत्तृनाम्नस्तु अर्द्धनाम्नोदनः प्रभुः ॥ ततःप्रभृति ताः देव्यः सेन्द्र्याद्याः परि- कीर्त्तिताः ॥” इति वराहपुराणम् ॥ * ॥ न्यायमते अस्याः सर्व्वगतत्वम् । परममहत्त्व- परिमाणम् । दूरान्तिकादिधीहेतुत्वम् । नित्य- त्वम् । एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यप- देशभाक्त्वम् । अस्या गुणाः । संख्या १ परि- मितिः २ पृथक्त्वम् ३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥ (सामान्यम् । यथा, सुश्रुते । १ । ४३ । “वमवद्रव्ययोगानां दिगियं सम्प्रकीर्त्तिता ॥”)
📄 मूल मुद्रित पृष्ठ (2-709-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "दिक्" आता है (4)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें