🕉️ 22 November 2026, Sunday · 03:31:12 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

परशुराम
paraśurāma
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
परशु—राम m. ‘Rama with the axe’, N. of one of the three Rāmas (son of Jamad-agni and sixth Avatāra of Viṣṇu, he was a typical Brāhman and his history typifies the contests between the Brahmans and Kṣatriyas), Kāv.; Pur.; MWB. xiii, 1; RTL. 110; 270 (also -क)
N. of a prince and of sev. authors (also with गर्जर, देव, मिश्र, मुनि), Cat.
📄 मूल मुद्रित पृष्ठ (589,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
परशुराम पु० परशुधारी रामः शा० त० । जमदग्निजे भग- वदवतारभेदे येन परशुना त्रिःसप्तकृत्वो भूमिर्निःक्षत्रिया कृता । अस्योत्पत्त्यादिकं यथा “अथ काले व्यतीते तु धमदग्निर्महातपाः । विदर्भराजस्य सुतां प्रयत्रेन जितां स्तयम् । भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् । सा तत्वात् सुसुवे पुत्रान् चतुरो वेदसम्मतान् । रुष- स्त्वन्तं सुषेणञ्च विश्वं विश्वावसुन्तथा । पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः । कार्त्तवीर्य्यबधायाशु श- क्राद्यः सकलैः सुरैः । याचितः पञ्चमः सोऽमूत्तेषां रामाहयस्तु यः । भारावतरणार्शाब लाता परशुना [] सह । सहजः परशुस्तस्य तं जहाति कदाच न अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् । ब्राह्मणः क्षत्रियाचारो रामोऽभूत् क्रूरकर्मकृत् । स वेदानखि- लान् ज्ञात्वा धनुर्वेदांश्च सर्वशः । स्वतातात् कृत कृत्योऽभूद्वेदविद्याविशारदः” कालिकापु० ८५ अ० ।
📄 मूल मुद्रित पृष्ठ (4239-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
परशुरामः, पुं, (परशुना कुठाराख्यशस्त्रेण रामः रमणं यस्य । परशुशस्त्रबलेनैव दुष्ट- क्षत्त्रियवंश्यान् निहत्यात्मानं रमयति इति तात् पर्य्यार्थः ।) भगवतः षोडशावतारः । यथा, -- “अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्त्रामकरोन्महीम् ॥” इति श्रीभागवते १ स्कन्घे २ अध्यायः ॥ तत्पर्य्यायः । जामदग्न्यः २ पर्शुरामः ३ परशु- रामकः ४ भार्गवः ५ भृगुपतिः ६ भृगूला- पतिः ७ । इति शब्दरत्नावली ॥ अस्योत्- पत्त्यादिकं यथा, -- मार्कण्डेय उवाच । “अथ काले व्यतीते तु जमदग्निर्महातपाः । विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् ॥ भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् । सा तस्मात् सुषुवे पुत्त्रान् चतुरो वेदसम्मतान् ॥ रुमण्वन्तं सुषेणञ्च विश्वं विश्वावसुन्तथा । पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः ॥ कार्त्तबीर्य्यवधायाशु शक्राद्यैः सकलैः सुरैः । याचितः पञ्चमः सोऽभूत्तेषां रामाह्वयस्तु यः ॥ भारावतारणार्थाय जातः परशुना सह । सहजः परशुस्तस्य तं जहाति कदाच न ॥ अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् । ब्राह्मणः क्षत्त्रियाचारो रामोऽभूत् क्रूरकर्म्मकृत् । स वेदानखिलान् ज्ञात्वा धनुर्व्वेदांश्च सर्व्वशः । स्वतातात् कृतकृत्योऽभूद्वेदविद्याविशारदः ॥” इति कालिकापुराणे ८५ अध्यायः ॥ अवशिष्टं पाद्मोत्तरखण्डे ५० अध्याये द्रष्टव्यम् ॥ (अयमेव पितुरादेशात् परशुना स्वमातुः शिर- श्चिच्छेद ततः प्रसन्नात् पितुर्वरं लब्ध्वा मातरं पुनर्जीवयामास । यदुक्तं महाभारते । ३ । ११६ । ५ -- १८ । “फलाहारेषु सर्व्वेषु गतेष्वथ सुतेषु वै । रेणुका स्नातुमगमत् कदाचिन्नियतव्रता ॥ सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् । ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥ क्रीडन्तं सलिले दृष्ट्वा सभार्य्यं पद्ममालिनम् । ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥ व्यभिचाराच्च सा तस्मात् क्लिन्नाम्भसि विचेतना । प्रविवेशाश्रमं त्रस्ता तां वै भर्त्ता त्वबुध्यत ॥ [] स (जमदग्निः) तां दृष्ट्वा च्युतां धैर्य्यात् ब्राह्म्या लक्ष्म्या विवर्ज्जिताम् । धिक्शब्देन महातेजा गर्हयामास वीर्य्यवान् ॥ ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः । आजगाम सुषेणश्च वसुर्व्विश्वावसुस्तथा ॥ तानानुपूर्व्व्या भगवान् वधे मातुरचोदयत् । न च ते जातसम्मोहाः किञ्चिदूचुर्व्विचेतसः ॥ ततः शशाप तान् क्रोधात्ते शप्ताश्चेतनां जहुः । मृगपक्षिसधर्म्माणः क्षिप्रमासन् जडोपमाः ॥ ततो रामोऽभ्यात् पश्चादाश्रमं परवीरहा । तमुवाच महाबाहुं जमदग्निर्म्महातपाः ॥ जहीमां मातरं पापां मा च पुत्त्र ! व्यथां कृथाः । तत आदाय परशुं रामो मातुः शिरोऽहरत् ॥ ततस्तस्य महाराज ! जमदग्नेर्महात्मनः । कोपोऽभ्यगच्छत् सहसा प्रसन्नश्चाब्रवीदिदम् ॥ ममेदं वचनात्तात ! कृतं ते कर्म्म दुष्करम् । वृणीष्व कामान् धर्म्मज्ञ ! यावतो वाञ्छसे हृदा ॥ स वव्रे मातुरुत्थानमस्मृतिञ्च वधस्य वै । पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिन्तथा ॥ अप्रतिद्वन्दतां युद्धे दीर्घमायुश्च भारत ! । ददौ च सर्व्वान् कामांस्तान् जमदग्निर्महा- तपाः ॥” अयं पुनर्बलदर्पितं आश्रमात् वत्स्यहारिणं कार्त्तवीर्य्यार्ज्जुनं हतवान् । अनेन जातामर्षा- स्तस्यार्ज्जुनस्य सुतास्ततःप्रभृति कालं प्रतीक्ष- माणाः कदाचित् रामविरहितमाश्रममागत्य तस्य पितरं जमदग्निं निजघ्नुः । रामस्तु अस्मात् पितृवधामर्षात् त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रिया- मकरोत् । ततो गच्छति काले दाशरथिना रामेण हतगर्व्वो दक्षिनाशां गत्वा महेन्द्रे गिरौ उग्रेण तपसा कालं यापयति ॥)
📄 मूल मुद्रित पृष्ठ (3-053-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "परशुराम" आता है (22)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें