पाञ्चालं, क्ली, (पञ्चाल एव । पञ्चाल + स्वार्थे अण् ।) शास्त्रम् । यथा, -- “पितृहूर्नृपपुर्य्या द्बार्द्दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ इति श्रीभागवते । ४ । पुरञ्जनोपाख्याने । २५ । ५० ॥ “पञ्चानां विषयाणामन्यतोऽनवगतानां प्रकाश- नायालमिति पञ्चालं शास्त्रम् ।” इति । “प्रवृत्तञ्च निवृत्तञ्च शास्त्रं पञ्चालसंज्ञकम् ।” इति च तट्टीकायां श्रीधरस्वामी ॥ अत्र पञ्चालमिति पाठः किन्तु स्वार्थे ष्णप्रत्यये पाञ्चालमपि भवति ॥
पाञ्चालः, त्रि, (पञ्चाले तदाख्यया प्रसिद्धे प्रदेशे भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) पञ्चालदेशोद्भवः ॥
पाञ्चालः, पुं, (पञ्चभिः प्रधानाभिर्नदीभिरलति पर्य्याप्नोतीति पञ्चालः । ततः स्वार्थे अण् ।) देशविशेषः । स तु द्रुपदराजनगरम् । अधुना फरक्कावाद इति ख्यातः ॥ (यथा, महाभारते । १ । १३८ । ३ । “पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्द्धनि । पर्य्यानयत भद्रं वः सा स्यात् परमदक्षिणा ॥” तद्देशवासिषु पुं भूम्नि ।) यथा, -- “पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ।” इत्यादि विराटपर्व्व ॥ (ब्रह्मदत्तस्य सहचरविशेषः । यथा, हरिवंशे । २३ । २२ । “पाञ्चालकण्डरीकाभ्यां तस्य सख्यमभूत्तदा ॥”)
📄 मूल मुद्रित पृष्ठ (3-099-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।