माध्वीकं, क्ली, (माध्वी + स्वार्थे कन् ।) मधूक- पुष्पकृतमद्यम् । तत्पर्य्यायः । मध्वासवः २ माधवकः ३ मधु ४ । इत्यमरः । २ । १० । ४१ ॥ मधुमाध्वीकमित्येकं नामेति केचित् ॥ पूर्व्वौ द्बौ पुष्पमद्ये । (यथा, महाभारते । ३ । २७७ । ३९ । “कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाध- वीम् । लोभं सौवीरके कुर्य्यान्नारी काचिदिति स्मरे ॥”) परौ द्वौ द्राक्षाविकारे । इति भरतः ॥ माद्दींक- मिति वा पाठः । इति रमानाथः । माध्वीक- स्थाने माध्वकमिति भानुदीक्षितः ॥ (मधु । यथा, नैषधे । १९ । ३३ । “धयतु नलिने माध्वीकं वा न वाऽभिनवागतः । कुमुदमकरन्दौघैः कुक्षिम्भरिर्भ्रमरोत्करः । इह तु लिहते रात्रीतर्षं रथाङ्गविहङ्गमा मधु निजबधूवक्त्राम्भोजेऽधुनाऽधरनामकम् ॥” “माध्वीकं मकरन्दम् । इति तट्टीकायां नारा- यणः ॥) तत्पर्य्यायो यथा, -- “मधुमाक्षीकमाध्वीकक्षौद्रसारध्यमीरितम् । मक्षिकावरटीभृङ्गवातपुष्परसोद्भवम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥)
📄 मूल मुद्रित पृष्ठ (3-698-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।