विदारी, स्त्री, (विदारयतीति । वि + दॄ + णिच् + अच् । गौरादित्वात् ङीष् ।) शालपर्णी । इति मेदिनी ॥ भूमिकुष्माण्डः । तत्पर्य्यायः । क्षीर- शुक्ला २ इक्षुगन्धा ३ क्रोष्ट्री ४ । इत्यमरः ॥ विदारिका ५ स्वादुकन्दा ६ सिता ७ शुक्ला ८ शृगालिका ९ वृष्यकन्दा १० विडाली ११ वृष्यवल्लिका १२ भूकुष्माण्डी १३ स्वादुलता १४ गजेष्टा १५ वारिवल्लभा १६ गन्धफला १७ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । गुरु- त्वम् । स्निग्धत्वम् । अस्रपित्तनाशित्वम् । कफ- कारित्वम् । पुष्टिबलवीर्य्यविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ विदारी वातपित्तघ्नी वृष्या बल्या रसायनी इति राजवल्लभः ॥ * ॥ अष्टादश-प्रकारकण्ठरोगान्तर्गत-रोगविशेषः । यथा, अथ विदारीमाह । [] “सदाहतोदं श्वयथुं सुताम्र- मन्तर्गले पूतिविशीर्णमांसम् । पित्तेन विद्याद्वदने विदारीं पार्श्वं विशेषात् स तु येन शेते ॥” स पुरुषो येन पार्श्वेन विशेषाद्बाहुल्येन शेते तस्मिन् पार्श्वे सा विदारी भवति इत्यर्थः । इति भावप्रकाशः ॥ अस्याश्चिकित्सादि रोहिणी- शब्दे द्रष्टव्यम् ॥
विदारी, [न्] त्रि, विदारणकर्त्ता । विपूर्व्वदॄधातोः कर्त्तरि णिन्प्रत्ययेन निष्पन्नः ॥
📄 मूल मुद्रित पृष्ठ (4-387-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।