वृषा, स्त्री, मूषिकपर्णी । इत्यमरः ॥ कपिकच्छूः । इति हेमचन्द्रः ॥
वृषा, [न्] पुं, (वर्षतीति । वृष सेचने + “कनिन् युवृषितक्षीति ।” उणा० १ । १५६ । इति कनिन् ।) इन्द्रः । (यथा, रघुः । १० । ५२ । “प्राजापत्योपनीतं तत् अन्नं प्रत्यग्रहीन्नृपः । वृषेव पयसां सारमाविष्कृतमुदन्वता ॥”) कर्णः । वेदनाज्ञानम् । दुःखम् । इति मेदिनी ॥ वृषः । (यथा, ऋग्वेदे । १० । ४३ । ८ । “वृषा न क्रुद्धः पतयत् रजःसु ॥” “रजःसु लोकेषु वृषा न यथा वृषभः क्रुद्धः सन् प्रतिवृषभवधाय पतयत् गच्छति ।” इति तद्- भाष्ये सायणः ॥) षोटकः । इति हेमचन्द्रः ॥ (यथा, ऋग्वेदे । ७ । ६९ । १ । “आवां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः ॥” “हे अश्विनौ वां रथो वृषभिः युवभिरश्वैर्युक्तः सन्नायातु ।” इति तद्भाष्ये सायणः ॥ पिता । यथा, ऋग्वेदे । ७ । २० । ५ । “वृषा जजान वृषणं रणाय ॥” “वृषा सेक्ता पिता कश्यपो वृषणं कामानां वर्षितारमिन्द्रम् ।” इति तद्भाष्ये सायणः ॥ त्रि, वर्षकः । यथा, ऋग्वेदे । १० । ६७ । ७ । “ब्रह्मणस्पतिर्वृषभिर्वराहैः ॥” “वृषभिर्वर्षितृभिर्वराहैर्वराहारैः ।” इति तद्- भाष्ये सायणः ॥)
📄 मूल मुद्रित पृष्ठ (4-489-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।