🕉️ 19 November 2026, Thursday · 05:12:13 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

व्यूह
vyūha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
सेना की रचना (2.8.79) बलविन्यास · युद्ध
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
व्यूह संज्ञा पुं॰ [सं॰]
१. समूह । जमघट ।
२. निर्माण । रचना ।
३. तर्क ।
४. शरीर । बदन ।
५. सेना । फौज ।
६. परिणाम । नतीजा ।
७. युद्ब के समय की जानेवाली सेना की स्थापना । लड़ाई के समय की अलग उपय़ुक्त स्थानों पर की हई सेना के भिन्न भिन्न अंगों की नियुक्ति । सेना का विन्यास । बलविग्यास । विशेष—प्राचीन काल में युद्धक्षित्र में लड़ने के लिये पैदल, अश्वारोही, रथ और हाथी आदि कुछ खास ढ़ंग से और खास खास मौकों पर रखे जाते थे, और सेना का यही स्थापन व्युह कहलाता था । आकार आदि के विचार से ये व्यूह कई प्रकार के होते थे । जैसे,— दंड़ व्युह, शकटव्यूह, वराहव्यूह, मकरव्यूह, सूचीव्यूह, पद्यव्यूह, चक्रव्यूह, वज्रव्यूह, गरूड़व्यूह, श्येनव्युह, मंडलव्यूह धनुर्व्यूद, सर्वतोभद्रव्यूह आदि । राजा या सेना का प्रधान सेनापति प्रायः व्यूह के मध्य मे रहता था; और उसपर सहसा आक्रमण नहीं हो सकता था । जब इस प्रकार सेना के सब अंग स्थापित कर दिए जाते थे, तब शत्रु सहसा उन्हें छिन्न भिन्न नहीं कर सकते थे ।
८. किसी प्रकार के आक्रमण या विपत्ति आदि से रक्षित रहने के लिये की हुई ऊपरा योजनाएँ ।
९. उपशीर्ष । अध्याय । भाग । अँश (को॰) ।
१०. अलग अलग करना । विभाग करना (को॰) ।
११. अस्तव्यस्त करना (को॰) ।
१२. स्थान बदलना (को॰) ।
१३. विस्तुत व्याख्या (को॰) ।
१४. श्वास प्रश्वास (को॰) । यौ॰—व्यूहपाष्णि, व्यूहपृष्ठ = सेना का पिछला भाग । चंदावल । व्यूहभंग, व्यूहभेद = सैनिकों कि स्थिति का क्रम टूटना । सानिकों की व्यूहस्यिति का छिन्नभिन्न होना । व्यूहरचना, व्यह- राज, व्यूहविभाग = सेना की एक विशिष्ट एवं पृथक् पंक्ति ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. व्य्-ऊह m. placing apart, distribution, arrangement, R.; VarBṛS. &c.
orderly arrangement of the parts of a whole (cf. चरण-व्य्˚), disposition, Nyāyas.
military array, an army, host, squadron (various arrays are दण्ड-, ‘staff-like array’; शकट-, ‘cart array’; वराह-, ‘boar array’; मण्डल-, ‘circular ar˚’; अ-संहत-, ‘loose ar˚’; आखेट-व्यूह, ‘hunting array’ &c.), Mn. vii, 187; MBh. &c.
shifting, transposition, displacement, ŚBr.; ŚrS.
separation, resolution (of vowels, syllables &c.), RPrāt.
detailed explanation or description, SaddhP.
a section, division, chapter, Sarvad.
form, manifestation (esp. the quadruple manifestation of Puruṣottama as Vāsudeva, Saṃkarṣaṇa, Pradyumna, and Aniruddha), appearance (often ifc. after numerals, cf. चतुर्-, त्रिर्-व्य्˚), MBh.; BhP.; Sarvad.
formation, structure, manufacture, L.
an aggregate, flock, multitude, Vās.; Śatr.
the body, W.
breathing, Nyāyas.
2. व्य्-ऊह m. reasoning, logic (= तर्क), L.
📄 मूल मुद्रित पृष्ठ (1041,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
व्यूहः 1 A military array; Ms. 7. 187. --2 An army, a host, squadron; व्यूहावुभौ तावितरेतरस्मात् भंगं जयं चापतुरव्यवस्थं R. 7. 54. --3 A large quantity, an assemblage, a multitude, collection. --4 A part, portion, subhead. --5 The body. --6 Structure, formation. --7 Reasoning, logic. --8 Separation, distribution. --9 (In phil.) A peculiar arrangement of the senses. --Comp. --पार्प्णिः f. the rear of an army. --भंगः, --भेदः [] breaking an array.
📄 मूल मुद्रित पृष्ठ (1025-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
व्यूह पु० वि + जह--घञ् । १ समूहे २ निर्माणे च ३ सम्यक- तर्के ४ देहे ५ सैन्ये ६ युद्धार्थं सैन्यसन्निवेशनविशेषे अमरः । “समग्रस्य तु सैन्यस्य विन्यासः स्थानभेदतः । स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम् । व्यूहभेदाश्च च- त्वारो दण्डोभोगस्तु मण्डलम् । असंहतश्च निर्णीता नीतिसारादिसम्मताः । अन्येऽपि प्रकृतिव्यूहाः क्रौञ्च चक्रादयः क्वचित् । तिर्य्यग्वृत्तिश्च दण्डः स्याद् भोगोऽ- न्वावृत्तिरेव च । मण्डल सर्वतो वृत्तिः पृथग्वृत्तिरसं- [] हतः” शब्दर० । शुक्रनीतिसारे तद्भेदादिकमुक्तं यथा “नद्यद्रिवनदुर्गषु यत्र यत्र भयं भवेत् । सेनापतिस्तत्र यत्र तच्छेद् व्यूहकृतैर्वलैः । यायाद् व्यूहेन महता म- करेण पुरोभये । श्येनेनोभयपक्षेण सूच्या वा धीर- वक्त्रया । पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसंज्ञकम् । सर्वतः सर्वतोभद्रं चक्रं व्यालमथापि वा । यथादेर्श कल्पयेद् वा शत्रुसेनाविभेदकम् । व्यूहरचनसङ्केतान् वाद्यभाषासमीरितान् । स्वसैनिकैर्विना कोऽपि न जः- नीयात् तथाविधान् । नियोजयेच्च मतिमान् व्यूहान् नानाविधान् सदा । अश्वानाञ्च गजानाञ्च पदातीनां पृथक् पृथक् । उच्चैः संश्रावयेद् व्यूहसङ्केतान् सैनिकान् नृपः । वामदक्षिणसंस्थो वा मध्यस्थो वाऽग्रसंस्थितः । श्रुत्वा तान् सैनिकैः कार्य्यमनुशिष्टं यथा तथा । सम्मी- लनं प्रसरणं परिभ्रमणमेव च । आकुञ्चनं तथा यानं प्रयाणमपयानकम् । पर्य्यायेण च साम्मुख्यं समुत्थानञ्च लुण्ठनम् । संस्थानं चाष्टदलचच्चक्रवद्गोलतुल्यकम् । सू- चोतुल्यं शकटवदर्द्धचन्द्रसमन्तु वा । पृथग्भवनमल्पाल्पैः पर्य्यायैः पङ्क्तिवेशनम् । शस्त्रास्त्रयोर्धारणञ्च सन्धानं लक्ष्यभेदनम् । मोक्षणञ्च तथाऽस्त्राणां शस्त्राणां परि- धातनम् । द्राक् सन्धानं पुनः पातो ग्रहो मोक्षः पुनः पुनः । स्वगूहनं प्रतीघातः शस्त्रास्त्रपदविक्रमैः । द्वाभ्यां त्रिभिश्चतुर्भिर्वा पङ्क्तितो गमनं ततः । तथा प्राग्- भवनं चापसरणं तूपसर्जनम् । अपसृत्यास्त्रसिद्ध्यर्थ- मुपसृत्य विमोक्षणम् । प्राग्भूत्वा मोचयेदस्त्रं व्यूहस्थः सैनिकः सदा । आसीनः स्याद्विमुक्तास्त्रः प्राग्वा चाप- सरेत् पुनः । प्रागासीनं तूपसृतो दृष्ट्वा स्वास्त्रं विमो- चयेत् । एकैकशो द्विशो वापि सङ्घशो बोधितो यथा । क्रौञ्चानां खे गतिर्यादृक् पङ्क्तितः सम्प्रजायते । तादृक् सञ्चारयेत् क्रौञ्चव्यूहं देशबलं यथा । सूक्ष्मग्रीवं मध्यपुच्छं स्थूलपक्षन्तु पङ्क्तितः । वृहत्पक्षं मध्यगल- पुच्छं श्येनं मुखे तनु । चतुष्पान्मकरो दीर्घस्थूल- वक्त्रद्विरोष्ठकः । सूची सूक्ष्ममुखो दीर्घसमदण्डान्तर- न्ध्रयुक् । चक्रव्यूहश्चैकमार्गो ह्यष्टधा कुण्डलीकृतः । चतुर्दिक्ष्वष्टपरिधिः सर्वतोभद्रसंज्ञकः । अमार्गश्चाष्टवलयी गोलकः सर्वतोमुखः । शकटः शकटाकारो व्यालो व्यालाकृतिः सदा । सैन्यमल्पं वृहद्वापि दृष्ट्वा मार्गं रण स्थलम् । व्यूहैर्व्यूहेन व्यूहाभ्यां सङ्करेणापि कल्प- येत” ।
📄 मूल मुद्रित पृष्ठ (4990-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
व्यूहः, पुं, (वि + ऊह + घञ् ।) समूहः । निर्म्मा- णम् । तर्कः । इति मेदिनी ॥ देहः । (यथा, भागवते । ११ । ६ । १० । “यः सात्वतैः समविभूतय आत्मवद्भि- र्व्यूहेऽर्च्चितः सवनशः स्वरतिक्रमाय ॥”) सैन्यः । इति त्रिकाण्डशेषः ॥ (परिणामः । लिङ्गम् । यथा, भागवते । ४ । २९ । ७० । “यावद्बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥”) [] युद्धार्थसेनारचना । तत्पर्य्यायः । बलविन्यासः २ । इत्यमरः ॥ “युद्धार्थं सैन्यस्य देशविशेषे विभज्य दुर्लङ्घ्यत्वनिमित्तं स्थापनं व्यूहः । ऊह वितर्के विपूर्व्वात् घञ् । युद्धे दण्डादयो भेदा विशेषा व्यूहस्येत्यर्थात् आदिना भोगमण्डलसं हतानां ग्रहः । यथाह कामन्दकिः । तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलं सर्व्वतो वृत्तिः पृथग्वृत्तिरसंहतः ॥ इति ॥ एषां चतूर्णाञ्च बहवो भेदाः क्रौञ्चचक्रादयो ग्रन्थगौरवभयान्नोक्ताः । इति भरतः ॥ अपि च । “समग्रस्य तु सैन्यस्य विन्यासः स्थानभेदतः । स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम् ॥ व्यूहभेदास्तु चत्वारो दण्डो भोगोऽस्त्रमण्डलम् । असंहतश्च निर्णीता नीतिसारादिसम्मताः ॥ अन्येऽपि प्रकृतिव्यूहाः क्रौञ्चचक्रादयः क्वचित् । तिर्य्यग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च ॥ मण्डलं सर्व्वतो वृत्तिः पृथग्वृत्तिरसंहतः । सैन्यानां नीतिसारादौ व्यूहभेदाः समीरिताः । क्रौञ्चचक्रादिभेदानां लक्षणं भारतादिषु ॥” इति शब्दरत्नावली ॥ (यथा च कामन्दकीयनीतौ । १९ । २९ -- ५७ । “सर्व्वव्यूहविधानज्ञा युद्धकर्म्मसु कर्म्मणः ॥ उरः कक्षे च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः । कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह इष्यते ॥ उरश्च कक्षपक्षौ च व्यूहोऽयं सप्रतिग्रहः । गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्ज्जितः ॥ अभेद्याः कुलजा मेध्या लब्धलक्ष्याः प्रहारिणः । सेनाङ्गपतयः कार्य्या दृष्टयुद्धप्रतिक्रियाः ॥ प्रवीरपुरुषैरेतैस्तिष्ठेयुः परिवारिताः । अभेदेन च युद्ध्येरन् रक्षेयुश्च परस्परम् ॥ फल्गु सैन्यस्य यत्किञ्चिन्मध्ये व्यूहस्य तद्भवेत् । युद्धवस्तु च यत्किञ्चित्प्रायस्तज्जघने भवेत् ॥ युद्धार्थं युद्धकुशलं चण्डानीकं प्रयोजयेत् । युद्धं हि नायकप्राणं हन्यते तदनायकम् ॥ व्यूहोऽनुपृष्ठमचलः पत्त्यश्वरथदन्तिभिः । तथाप्रतिहतो ज्ञेयो हस्त्यश्वरथपत्तिभिः ॥ मध्ये देशे हयानीकं रथानीकं तु कक्षयोः । पक्षयोश्च गजानीकं व्यूहोऽन्तभिदयं स्मृतः ॥ रथस्थाने हयान्दद्यात्पदातींश्च हयाश्रये । रथाभावे तु मतिमान्नागानेव प्रकल्पयेत् ॥ विभज्य प्रक्षिपेन्मध्ये पत्त्यश्वरथकुञ्जरान् । मध्ये कुर्व्वीत नागेन्द्रान् पत्त्यश्वरथवारितान् ॥ धनुः सूची च दण्डश्च शकटो मकरध्वजः ॥ इत्यादयो महाव्यूहास्तदाकारान् प्रकल्पयेत् ॥ यदि स्याद्दण्डबाहुल्यं तदा चापः प्रकीर्त्तितः । मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिमिः ॥ कथिताः प्रकृतिव्यूहा भेदास्तेषां प्रकीर्त्तिताः । यः स तं व्यूह्य मतिमान् काले स्थाने प्रकल्पयेत् ॥ तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगत्वाद्वृत्तिरेव च । प्रदरो दृढकोऽसह्यश्चापो वै तद्बिपर्य्ययः ॥ प्रतिष्ठः सुप्रतिष्ठश्च श्येनी विजयसञ्जयौ । विशालविजयः सूची स्थणाकर्णश्चमूमुखः ॥ [] सुखाख्यो वलयश्चैव दण्डभेदाः सुदुर्ज्जयः । अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकपक्षतः ॥ अतिक्रान्तश्च पक्षाभ्यां त्रयोऽन्यस्तु विपर्य्ययः । स्थूणापक्षो धनुःपक्षो द्बिस्थूणो दण्ड ऊर्द्ध्वगः ॥ द्विगुणान्तस्त्वतिक्रान्तपक्षोऽन्योऽस्य विपर्य्ययः । द्बिचतुर्द्दण्ड इत्येवं ज्ञेया लक्षणतः क्रमात् ॥ गोमूत्रिकाहिसञ्चारी शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें