🕉️ 20 November 2026, Friday · 12:39:09 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

व्रीहि
vrīhi
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
(जल्दी पकने वाला) धान (2.9.16) आशु · पाटल
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
व्रीहि संज्ञा पुं॰ [सं॰]
१. धान ।
२. चावल ।
३. अन्न (को॰) ।
४. धान का खेत (को॰) ।
५. चावल का बीज या दाना (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
व्रीहि m. (of doubtful derivation) rice pl. grains of rice (not mentioned in RV., but in AV. named together with यव, माथ, and तिल; eight principal sorts are enumerated by native authorities), RV. &c. &c.
a field of rice, KātyŚr.
rice ripening in the rainy season, W.
any grain, L.
📄 मूल मुद्रित पृष्ठ (1043,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
व्रीहिः [व्री-हि किच्च] 1 Rice; as in बहुव्रीहि q. v. --2 A grain of rice. --Comp. --अगारं a granary. --कांचनं a kind of pulse. --राजिकं panic seed (= कंगू q. v.). --श्रेष्ठः a kind of rice (शलिधान्य).
📄 मूल मुद्रित पृष्ठ (1026-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
व्रीहि पु० व्री--हि किच्च । १ धान्यभेदे २ आशुधान्ये च अमरः । तद्भेदादिकं भावप्र० उक्तं यथा “वार्षिकाः कण्डिताः शुक्लाः व्रीहयश्चिरपाकिणः । कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि । शालामुखो जतुमुख इत्याद्याः व्रीहयः स्मृताः । कृष्णव्रीहिः स विज्ञेयो यः कृष्णतुषतण्डुलः । पाटलः पाटलापुष्प वर्णको व्रीहिरुच्यते । कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कु- टाण्डक उच्यते । शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते । लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः । व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिताः । अल्पा- भिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः । कृष्णव्रीहिर्वर- स्तेषां तस्मादल्पगुणाः परे” । ततः अस्त्यर्थे व्रीह्या० इनिठनौ । व्रीहिन् व्रीहिक तद्विशिष्टे त्रि० बिल्घा० पुराडाशभिन्ने अवयवार्थे अण् । व्रैह तदवयवे ।
📄 मूल मुद्रित पृष्ठ (5071,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
व्रीहिः, पुं, (वर्हति वृद्धिं गच्छतीति । वृह वृद्धौ + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । पृषोदरादित्वात् साधुः ।) धान्यमात्रम् । आशुधान्यम् । इत्यमरः ॥ अस्य सामान्यनाम- गणना गुणाश्च यथा, -- “धान्यं भोग्यञ्च भोगार्हमन्नाद्यं जीवसाधनम् । तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ व्रीह्यादिकं यदि ह शूकसमन्वितं स्यात् यत् शूकधान्यमयमुद्गमकुष्टकादि । शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बी- धान्यं तृणोद्भवतया तृणधान्यमन्यत् । तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्यविवृद्धिदायि । शिम्बीभवं गुरु हिमञ्च विबन्धदायि वातालकन्तु शिशिरं तृणधान्यमाहुः ॥ [] देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तैर्द्दैवतैर्व्वा । अस्मादेषां येषु भोगोपभोगा- स्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥ शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः । धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥ राजान्नषष्टिकसितेतररक्तमुण्ड- स्थूलाणुगन्धतिरियादिकशालिसंज्ञाः । व्रीहिस्तथेति दशधा भुवि शायनाः स्यु- स्तेषां क्रमेण गुणनामगणं ब्रवीमि ॥ व्रीहिर्गौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च । पुष्टिं दत्ते श्रमशमनकृद्वीर्य्यवृद्धिं विधत्ते रुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥” इति राजनिर्घण्टः ॥ अपि च । “वार्षिकाः काण्डिताः शुक्ला व्रीहयश्चिर- पाकिनः । कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि ॥ शालमुखो जतुमुख इत्याद्या व्रीहयः स्मृताः । कृष्णव्रीहिः स विज्ञेयो यत्कृष्णतुषतण्डुलाः ॥ पाटलः पाटलापुष्पवर्णको व्रीहिरुच्यते । कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कुटाण्डक उच्यते ॥ शालमुखः कृष्णशूकः कृष्णतण्डुल उच्यते । लाक्षावर्णमुखं तस्य ज्ञेयो जतुमुखस्तु सः ॥ व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिमाः । अल्पाभिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः ॥ कृष्णव्रीहिर्व्वरस्तेषां तस्मादल्पगुणाः परे ॥” इति भावप्रकाशः ॥ तस्य यज्ञीयत्वं यथा, -- “यज्ञार्थं तन्तु भूतानां भक्ष्यमित्येव वै श्रुतिः । दिव्यो भौमस्तथा पैत्रो मानुषो ब्राह्म एव च ॥ एते पञ्च महायज्ञा ब्रह्मणा निर्म्मिताः पुरा । ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखाः ॥ इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः । एवं कृत्वा नरो भुक्त्वास्माद्धरित्रि ! विशुध्यति ॥ अन्यथा व्रीहयोऽप्येते एकैके मृगपक्षिणः । मन्तव्या दातृभोक्तॄणां महामांसं तु तत् स्मृतम् ॥” इति वाराहे आदिकृतवृत्तान्ताध्यायः ॥ तेन पितृतृप्तिर्यथा । मनुः । [] “तिलैर्वीहियवैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥” व्रीहिः शरत्पक्वधान्यम् । याज्ञवल्क्यः । “हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” हरिष्यान्नेन शालिव्रीह्यन्नेन । इति । अमा- वास्यास्त्रिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयो- दशी व्रीहियवपाकौ च । “एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा- पतिः । श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥” इति विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहि- यवोभयप्राप्तिविषयकत्वेन विधायकं ग्रैष्मादि- धान्यव्युदासाय । शालिधान्यस्य तु प्राप्तिः । “शरद्वसन्तयोः केचित् नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥” इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येऽष्टौ- शालिविधानात् यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा कल्पनात् । इति च श्राद्धतत्त्वम् ॥ * ॥ नवान्न-
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "व्रीहि" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें