🕉️ 20 November 2026, Friday · 09:27:59 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

सदाचार
sadācāra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
सदाचार संज्ञा पुं॰ [सं॰]
१. अच्छा आचरण । सात्विक व्यवहार । सद्वृत्ति ।
२. शिष्ट व्यवहार । भलमनसाहत ।
३. रीति । रवाज ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सद्—आचार m. practice of good men, virtuous conduct, good manners, approved usage, Mn.; Yājñ.; Kāv. &c.
N. of wk.
सद्—आचार mf(आ)n. well-conducted, virtuous, Kathās.; Rājat. &c.
📄 मूल मुद्रित पृष्ठ (1137,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
सदाचार पु० कर्म० ६ त० वा “सरस्वतीदृषद्वत्योर्देवनद्योर्य- दन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त्तं प्रचक्षत । त- स्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । वर्णानां सान्तरलानां स सदाचार इष्यते” इति मनूक्तदेशप्रचलिते आचारे “साधवः क्षीणदाषाश्च सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारः स उच्यते” इत्युक्ते सा- धूनां २ शुभाचरणे च । सदाचारनिरूपणम् आचारशब्दे ६ ३२ पृ० दृश्यम् । विप्रस्य चातुराश्रम्यमुक्त्वा “गार्हस्थ्य ब्रह्मचर्य्यञ्च वानप्रस्थं त्रयाश्रमाः । क्षत्रिय- स्यापि गदिता य आचारो द्विजस्य हि । वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः । गार्हस्थ्यमुत्तमं त्वेकं शूद्रस्य क्षणदाचर! । स्वानि वर्णाश्रमोक्तानि धर्माणीह न हापयेत् । यो हापयति तस्यासौ परिकुप्यति भा- स्करः । कुपितः कुलनाशाय देहरोगविवृद्धये । वर्ष्माशु पतते तस्य नरस्य क्षणदाचर! । तस्मात् स्वधर्मं न हि सन्त्यजेच्च न हापयेच्चापि तथात्मबंशम् । यः सन्त्यजे- च्चापि निजं हि धर्मं तस्मै प्रकुप्येत दिवाकरश्च” वाम- नपु० १४ अ० ।
📄 मूल मुद्रित पृष्ठ (5208,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
सदाचारः, पुं, (सतां साधूनामाचारः ।) साधू- नामाचरणम् । तल्लक्षणादि यथा, -- “सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् । तद्देवनिर्म्मितं देशं ब्रह्मावर्त्तं प्रचक्षते ॥ तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । वर्णानां सान्तरालानां सदाचारः स उच्यते ॥” इति मनुः ॥ * ॥ अन्यच्च । और्व्वौवाच । “सदाचारेषु राजेन्द्र विशेषान् शृणु संप्रति । यानवश्यं नृपः कुर्य्यात्तान्मत्तः सकलान् शृणु ॥ साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारः स उच्यते ॥ आगमेषु पुराणेषु संहितासु यथोदितान् । समुद्दिष्टसदाचारांस्तान् गृह्णीयाद्गृहस्थवत् ॥ ऋषीन् यजेद्वेदपाठैर्द्देवान् होमैस्तु पूजयेत् । श्राद्धैः पितॄन् यजेदन्नैर्भूतानि बलिभिस्तथा ॥ मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । सर्व्वं गृहस्थवत् कुर्य्यात् निषेकाद्यं विधिं तथा ॥ षट्कर्म्मसु नियुञ्जीत राजा विप्रान् समन्ततः । तथैव क्षत्त्रियादीनि स्वे स्वे कर्म्मणि योजयेत् ॥ [] यः स्वधर्म्मं परित्यज्य परधर्मं समाचरेत् । तं शतेन नृपो दण्ड्यः पुनस्तस्मिन्नियोजयेत् ॥ सांवत्सरेषु कृत्येषु विशेष्यैतान् समाचरेत् । अवश्यं पार्थिवो राजन् विशेषांस्तु शृणुष्व मे ॥ शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् । नीराजनं दशम्यान्तु कुर्य्याद्वै बलवृद्धये ॥ पौषे मासि तृतीयायां कुर्य्यात् पुष्याभिषेचनम् पूजयित्वा श्रियं देवीं श्रीपञ्चम्यां नृपश्चरेत् ॥ श्रीयज्ञं धनधान्यस्य वृद्धये नृपसत्तमः । ज्यैष्ठे दशहरायान्तु विष्णोरिष्टं समाचरेत् ॥ रवौ हरिस्थे द्वादश्यां शक्रपूजां समाचरेत् । विशेष्यैतांस्तु नृपतिः कुर्य्यात् सर्वं बहुव्ययैः । एभिः कृतैर्बलं राज्यं कोषश्चापि विवर्द्धते ॥ अकृतेष्वेषु यज्ञेषु दुर्भिक्षं मरकं तथां । जायते च नृपस्तस्मादेषु यज्ञं समाचरेत् ॥ शरत्काले महाष्टम्यां दुर्गायाः पूजने विधिः । पुरा प्रोक्तस्तु विधिना तेन कार्य्यन्तु पूजनम् ॥” इति कालिकापुराणे ८६ अध्यायः ॥ * ॥ अपि च । “सदाचारे विशेषोऽयं कथितस्तव पार्थिव ! । निषेधेषु विशेषांस्तु शृणु येन श्रियेष्यते ॥ असंपूज्य तथा विष्णुं शिवामग्निं पुरन्दरम् । अदत्त्वा च तथा दानं न भुञ्जीयान्नृपः क्वचित् ॥ हावयेदग्निहोत्रन्तु नित्यमेव पुरोहितैः । अहुत्वा चाग्निहोत्रन्तु भुञ्जन्नरकमाप्नुयात् ॥ नारक्षिते गृहे राजा रत्नर्द्धिपरिवर्ज्जिते । स्वपेत्तथा स्त्रिया सार्द्धं न कदाचन संविशेत् ॥ भुक्त्वान्नं श्रीफलं नाद्यात्तथा धात्रीफलं नृपः । बुद्धिक्षयकरा एता माष आसवमृत्तिकाः ॥ निम्बाटरूषवृत्ताश्च बुद्धिवृद्धिकरा न ताः । बुद्धिवृद्धिहरान्नित्यं त्यजेद्राजा च भोजने ॥ भोजयेदन्वहं वुद्धिवृद्धिहेतुं नृपोत्तमः । न पर्य्यायविहीनन्तु प्रारोहेदासनं नृपः ॥ न यानं न गजानश्वमारोहेद्वीक्ष्य ब्राह्मणम् । नैकन्तु विचरेद्राजा कदाचिदपि निर्जने ॥ मदहेतुं न भुञ्जीयात् कदाचिदपि भोजने ॥ कदापि नोपसेवेत ह्यष्टम्यां मांसमैथुने ॥ अमास्नानं गयाश्राद्धं तिलैस्तर्पणमेव च । न जीवत्पितृको भूपः कुर्य्यात् कृत्वाघमाप्नुयात् न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत् । पितॄणां श्राद्धयेन्नित्यमौरसे तनये सति ॥ औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च पोष्यश्च षडिमे पुत्त्रपांशुलाः ॥ अभावे पूर्व्व पूर्व्वेषां परान् समभिषेचयेत् । पौनर्भवं स्वयं दत्तं दासं राज्ये न योजयेत् ॥ दत्ताद्याश्चापि तनया निजगोत्रेण संस्थिताः । आयान्ति पुत्त्रतां सम्यगन्यबीजसमुद्भवाः ॥ पितुर्गोत्रेण यः पुत्त्रः संस्कृतः पृथिवीपते ।
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "सदाचार" आता है (20)
समुदाचार शिष्टाचार । भलमनसहत का व्यवहार । सदाचारलुंडिका न्यायसारिणी । सदाचार । सद्व्यहारदक्षिणाचार सदाचार । शुद्ध और उत्तम आचरणआर्यधर्म सदाचारऋजुनीति सदाचारशीलवृत्त अच्छे आचारणवाला । सदाचारीशीलवृत्ति सुशीलता । सदाचार । भलमनसीअखलाक सदाचार । उत्तम आचारसुचाल उत्तम आचरण । अच्छी चाल । सदाचारधूनगुण सदाचारपारसाई सच्चरित्रता । सदाचारनेकचलनी सुचाल । सदाचार । भलमनसाहतसदवृत्त सदाचारी । शिष्टनीति ले जाने या ले चलने की क्रिया, भाव या ढंगआकूति अभिप्राय । आशय । मतलबसत्पथ उत्तम मार्गसत्कृति आदर सत्कारसुनय सुनीति । उत्तम नीतिसुवृत्ति उत्तम वृत्ति । उत्तम जीविकासाधुवृत्त उत्तम स्वभाव और चरित्रवाला । साधु आचरण करनेवाला
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें