सभासद् पुं, (सभा + सद् + क्विप् ।) सभाभां सीदति उपविशति यः । तत्पर्य्यायः । सभास्तारः २ सभ्यः ३ सामाजिकः ४ । इत्य- मरः ॥ परिषद्वलः ५ पर्षद्वलः ६ परिषदः ७ पार्षदः ८ परिसभ्यः ९ । इति शब्दरत्नावली ॥ तल्लक्षणादि यथा । कात्यायनः । “सभ्यतावश्यवक्तव्यं धर्म्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्तदानृणः ॥” सभ्यः समायां साधुः । तथाविधानाह याञ्ज- वल्क्यः । “श्रुताध्ययनसम्पन्नाः कुलीनाः सत्यवादिनः । राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च ये समाः ॥” श्रुताध्यनसम्पन्नाः धर्म्मशास्त्रज्ञाः । कुलीनाः सङ्करादि-दोषशून्यमातापितृवंश-परम्पराकाः । गवस्मूताः मभासदः सभायां यथा सीदन्ति तथ दानमानसत्कारै राज्ञा कर्त्तव्याः । इति व्यवहारतत्त्वम् ॥ * ॥ अन्यच्च । “समः शत्रौ च मित्रे च धर्म्मशास्त्रविशारदः । विपमुख्यः कुलीनश्च धर्म्मधिकरणे भवेत् ॥ [] कार्य्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः ॥” इति मत्स्यपुराणे १८९ अध्यायः ॥ बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह । “लोकवेदज्ञधर्म्मज्ञाः सप्त पञ्च त्रयोऽपि वा । यत्रोपाविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥” किञ्च । “सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्म्मतः ॥” तत्र ब्राह्मणा अनियुक्ताः सभासदस्तु नियुक्ता इति भेदः । तत्र नियुक्तानां यथावस्थितार्थ- कथनेऽपि यदि राजान्यथा करोति तदासौ निवारणीयोऽन्यथा दोषः । उक्तञ्चकात्यायनेन । “अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्माद्रोधनीयः स तैर्नृपः ॥” इति मिताक्षरा ॥
📄 मूल मुद्रित पृष्ठ (5-266-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।