सुरभी, स्त्री, (सुरभि + वा ङीष् ।) सुगन्धिः । इत्यमरटीकायां भरतः । २ । ४ । १२३ ॥ शल्लकी । इति शब्दचन्द्रिका ॥ (यथा, -- “शल्लकी गजभक्ष्या च सुवहा सुरभी रसा । महेरुणा कुन्दरुकी वल्लकी च बहुस्रवा ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) ह्रस्वेकारान्तसुरभिशब्दार्थोऽप्यत्र ॥ गोमाता । यथा, -- “सा का वा सुरभी देवी गोलोकादागता च या । तज्जन्मचरितं ब्रह्मन् श्रोतुमिच्छामि तत्त्वतः ॥” इति ब्रह्मबैवर्त्ते प्रकृतिखण्डे ४७ अध्यायः ॥ (ह्रस्वेकारान्तसुरभिशब्देऽस्याः विशेषविवरणं ज्ञेयम् ॥) अथ गोयात्राप्रवेशविक्रयदिनम् । तत्र तिथय अमावस्याष्टमीचतुर्द्दशीविष्टिभिन्नाः तत्र नक्षत्राणि रोहिणी पूर्व्वफल्गुनी पूर्व्वा- षाढा पूर्व्वभाद्रपद् उत्तरफल्गुनी उत्तराषाढा उत्तरभाद्रपत् श्रवणा भरणी चित्रा एतद्व्यति- रिक्तानि । योगाः व्यतोपातवैधृतिभिन्नाः । तत्र वाराः क्रूरग्रहभिन्नाः । इति ज्योतिष- तत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (5-381-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।