🕉️ 19 November 2026, Thursday · 05:34:34 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

इष
iṣa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
आश्विन के नाम (1.4.19) आश्विन · आश्वयुज
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
इष संज्ञा पुं॰ [सं॰]
१. क्वार का महीना । अश्विन ।
२. बलवान् व्यक्ति ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. इष mfn. seeking (see गव्-इष).
2. इष mfn. possessing sap and strength
well-fed, strong
sappy, juicy, fertile, RV.
इष m. N. of the month Āśvina, (September-October), VS.; ŚBr.; Suśr.; VP.
N. of a Ṛṣi, BhP.
📄 मूल मुद्रित पृष्ठ (169,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
इषः 1 One possessed of sap or strength. --2 The month आश्विन; ध्वनिमिषेऽनिमिषेक्षणमग्रतः Śi. 6. 49.
📄 मूल मुद्रित पृष्ठ (0281-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
इष गतौ सर्पणे च दिवा० पर० सक० सेट् । १ इष्यति, ऐष्यत् । ऐषीत् इषितः एषित्वा । “इष्यन् वाचमुपवक्तेव होतः” ऋ० ९, ६४, ९ । “योऽभिवात इषितः प्रवाति” अथ० १०, ८, ३५ । “स तत्कृषीषितस्तूयमग्ने” अथ० ६, ३५, ५ । “हिन्वानो वाचमिष्यसि” ऋ० ९, ६४, ९ । इच्छा- [] यामपि “अप इष्य होतरित्थप इच्छ होतरित्यैवेतदाह” शत० ब्रा० ३, ९, ३, १५ । गतौ तुदादिरपि इषति निरु० । अनु + अन्वेषणे गवेषणे “अन्विष्यन्तस्ततःसीताम्” रामा० “यावदेनामन्वेष्यामि” शकु० । “न रत्नमन्विष्यति मृग्यते हि तत्” कुमा० । “तस्यान्विष्यन् वेतसगूढं प्रभवं सः” रघुः । स्वार्थे णिच् । तत्रैव “राममन्वेषयामि” सा० द० । प्र + प्रेरणे । “अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्” भा० व० १६ अ० । “गत्वा प्रैषीच्चरावणम्” भट्टिः “अ- ध्वर्युप्रेषितोमैत्रावरुणः प्रेष्यति” आश्व० गृ० । “शौनः शेफं च प्रेष्यति” कात्या० १३, ६, १ “अग्नीषोमाभ्यां छागस्य वपायै मेदसे प्रेष्य” शत० ब्रा० ३, ८, २, २७ । घञ् प्रैष्यः । ण्यत् प्रैषः । स्वार्थेणिच् । प्रेषयति प्रेषयामास । “स च मां प्रेषयामास” रामा० । परि + सत्कारपूर्व्वकनियोजने पर्य्येष्यति स्वार्थे णिच् पर्य्येषितः पर्य्येषणा ।
इष वाञ्छायाम् तुदा० पर० सक० सेट् वेट् क्त्वः । १ इच्छति, “इच्छामि संबर्द्धितमाज्ञयाते” कुमा० । इच्छेत् “यदीच्छे- द्विपुलान् भोगान्” मल० त० पु० । “राजान्तेवासि- याज्येभ्यः सीदन्नोच्छेद्धनं क्षुधा” या० स्मृ० । ऐच्छत् ऐषीत् “ऐषीः पुनर्जन्मजयाय यत्त्वम्” भट्टिः इयेष “इयेष सा कर्त्तुमबन्ध्यमात्मनः” कुमा० ईषतुः । इच्छन् “किमच्छन् कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुतिः । एषिता--ऐष्टा एषित्वा--इष्ट्वा । भावे श इच्छा “आत्मजन्या भवे- दिच्छा” न्यायका० । इष्टः “इष्टोऽसि मे सखा चेति” गीता । कर्मणि इष्यते “त्रिरात्राच्छुद्धिष्यते” स्मृतिः । एष्टव्यः एषि- तव्यः । “एष्टव्या बहवः पुत्रायद्येकोऽपि गयां व्रजेत्” पु० । अनु + अन्वेषणे । “तं खलन्त इवान्वीषुः” शत० ब्रा० । “हन्त तमात्मानमन्विच्छामो यमन्वेष्टा” छा० उ० । “अनु- पदसन्वेष्टा” पा० “वयं तत्त्वान्वेषात् मधुकर! हतस्त्वं खलु कृती” शकु० प्रति + प्रतिग्रहे प्रतीच्छति (प्रतिगृह्णाति) । “ततः प्रतीच्छ प्रहरेति वादिनी” नैष० “स्नुषां प्रतीच्छ मे कन्याम्” प्राप्तौ च “बुद्धौ शरणमन्विच्छ” गीता । स्वार्थे णिच् वेदे० नि० गुणाभावः । इषयति “इच्छंस्तदा- स्तरायेष मदन्त इपयेम ज्योतिः” ऋ० १, १८५, ९ । “इषयेम इच्छाम” भा० । परि + अन्वेषणे च परीच्छति (अन्विष्यति) “भगवन्तं वा अह- मेभिरार्त्विज्यैः पर्य्यैषिषम्” छा० उ० । अभि + मस्मगिच्छायाम् अभोष्टम् ।
इष ओभोक्ष्ण्ये क्र्यादि० पौनःपुन्ये पर० अक० सेट् इष्णाति इष्णातु इषाण । “इष्णन्निषाणामुं महेषाण सर्व्वलोकं मैषाण” यजु० ३१, २२, अ० । ऐष्णात् ऐषीत् । एषितः एषित्वा । प्रेरणे च । “भिनद्गिरिं शबसा वज्रमिष्णन्” ऋ० ४, १७, ३ । इष्णन् प्रेरयन्” भा० । इच्छार्थेऽपि “पूर्वीरिषश्चरति मध्व इष्णन्” ऋ० १, १८१, ६ । “मध्वः मधुनः इष्णन् इच्छन” भा० । आभी- क्ष्ण्यञ्च क्रियापौनःपुन्यम् । क्रिया च धात्वर्थविशेषः स च वाञ्छागत्यादिरेव तस्यैवाभीक्ष्ण्यद्योतनेऽस्य साधुत्वम्
इष गतौ भ्वा० उभ० सक० सेट् । एषति ते । ऐषीत् ऐषिषट अनु--अनुसरणे । अन्वेषति । “अन्वेषन्तोवनं राजन्” “देशमन्यं दुराचारमन्वैषन् वानरास्तथा” रामा० ।
इष पु० इष--गतौ क्विप्--इट् यात्रा सास्मिन् मासे जिगीषूणा- मस्ति अर्श आ० अच् । सौरे चान्द्रे च आश्विने १ मासि । “श्रावण्ये भाद्रमासे युवतिगृहगते चार्थलाभः प्रदिष्टः” राजमा० उक्तेः “सौराश्विनस्य यात्राया अर्थलाभदत्वात्तथा- त्वम्” । अत एव रघौ “सरितः कुर्वती गाधाः पथश्चाश्या- नकर्दमान् । यात्रायै न
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
इष य सर्पणे । गतौ । इति कविकल्पद्रुमः ॥ (दिवां- परं-सकं-सेट् ।) ह्रस्वादिः । य इष्यति । सर्पणं गतिः । इति दुर्गादासः ॥
इष उ श वाञ्छे । इति कविकल्पद्रुमः ॥ (तुदां- परं-अकं-सेट् । उ एषित्वा इष्ट्वा । वेमसह- लुभेत्यादिसूत्रेणैवेष्टसिद्धेऽप्यस्योदनुबन्धस्तत्सूत्रे इ षगाभीक्ष्ये इष्य सर्पणे इत्येतयोरप्राप्तये विशे- षणार्थः । न च पिबादिग्रहणवत्तत्र इच्छ इति ग्रहणेनैवेष्टसिद्धिरिति वाच्यं लाघवाभावे प्राचीन- मतस्यैव न्याय्यत्वात् । श इच्छती इच्छन्ती । अस्यैव इच्छादेशः । इच्छति धनं लोकः । इति दुर्गादासः ॥
इष ग आमीक्ष्ण्ये । पौनःपुन्येन करणे । इति कवि- कल्पद्रुमः ॥ (क्र्यादिं-परं-अकं-सेट् ।) ग इष्णाति पण्डितः । पुण्यं पुनःपुनः करोतीत्येर्थः । इति दुर्गादासः ॥
इषः, पुं, (इष्यते गम्यतेऽस्मिन् जिगीषुभिरिति । इष + क ।) आश्विनमासः । इत्यमरः ॥ (यथा, [] शतपथब्राह्मणे । ४ । ३ । “यच्छरद्दूर्गस ओषधयः पच्यन्ते ते ने हैताविषश्चोर्गश्च” । इषर्जौ शरत्” । इति सुश्रुतः ॥)
📄 मूल मुद्रित पृष्ठ (1-214-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें